2023-06-02 06:59:30 by jayusudindra
This page has been fully proofread once and needs a second look.
मेव नास्ति ।" नास्त्यकृतः कृतेन, अमृतत्वस्य नाशास्ति वित्तेन " इत्यादि-
श्रुतिभ्यः नित्यमोक्षाभिव्यंजकत्वं कर्मणः नास्तीत्यवगम्यते । नित्यत्वं
च मोक्षस्य " न स पुनरावर्तते " इति श्रुत्यावगम्यते, सः ब्रह्मलोकं गतः
सगुणोपासकः पुरुषः पुनर्नावर्तते न संसारीभवति, जन्मभाङ्न भवतीत्यर्थः ।
तत्र कारणं मुक्तत्वमेव । तच्च ब्रह्मस्वरूपेणावस्थानमेव । तथाच ब्रह्मणः "यो वै भूमा तदमृतं" "सत्यं ज्ञानमनन्तं ब्रह्म" "नित्यो नित्यानां " इत्यादिश्रुतिशतेभ्यः
नित्यत्वेन प्रतीयमानत्वात् तत्स्वरूपमोक्षस्यापि
नित्यत्वम् । उक्तं च शास्त्रान्तिमाधिकरणभाष्ये " सम्यग्दर्शन - विध्वस्त -
तमसां तु नित्यसिद्धनिर्वाणपरायणानां सिद्धैवानावृत्तिः । तदाश्रयणेनैव
हि सगुणशरणानामपि अनावृत्तिसिद्धिरिति" । तेन ब्रह्मलोकंगतानां
तत्रैव कृतसाक्षात्काराणां कैवल्यरूपमोक्षः । "ते ब्रह्मलोके तु परान्तकाले
परामृतात्परिमुच्यन्ति सर्वे" "ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे ।
परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्" इत्यादिश्रुतिस्मृतिभ्योवगम्यते ।
तत्र परामृतात् वेदान्तविचारजनितोत्कृष्टज्ञानात् इत्यर्थः। कृतात्मानः
कृतात्मसाक्षात्कारा इत्यर्थः । यथा कण्ठगतमेव चामीकरं कवचादिना
तिरोहितं अन्विष्यान्विष्य श्रान्तः आप्तवाक्येन, वर्तते किलात्रैव तव कण्ठे
कुतो वा भ्राम्यति भवान् इत्यनेन बोधितः अप्राप्तमिव प्राप्नोति स्थितस्यैव
चामीकरस्य अभिव्यंजकं तदाप्तवाक्यजन्यज्ञानं, एवं सिद्धस्यैव ब्रह्मभाव-
रूपमोक्षस्य अभिव्यंजकः तत्वमसीत्यादि-गुरूपदिश्यमान-महावाक्यजन्य-
साक्षात्कारः इति न ज्ञानजन्यत्वशंका तत्र कार्या । यथा पूर्वमेव कौन्तेय-
स्सन्नपि कर्णः वाल्यात्प्रभृति राधया पोषितत्वात् स्वात्मानं राधेयं मन्वानः
कुन्तीवाक्यादात्मानं कौन्तेयं मेने । न तावता तेन कौन्तेयत्वं नूतनमलम्भि।
अपितु पूर्वमज्ञातं कुन्तीवाक्याज्ज्ञातं । एवं प्रकृतेपि वेदितव्यम् । यथावा
श्रीरामेण "आत्मानं मानुषं मन्ये रामं " इत्याद्यनुसारेण स्वात्मानं मनुष्यं
मन्येन एकशृंगगो वराहस्त्वं इत्यादिपरमेष्टिवाक्यै: महाविष्णुरेव त्वमिति
बोधितेन स्वस्वरूपं ज्ञातं न तत्र अविद्यमानं महाविष्णुत्वमागतं अपितु
स्थितमभिव्यंजितं तद्वच्चेति ज्ञेयम् । तथाच उत्पाद्याप्य-संस्कार्यविकार्याणां
अन्यतमस्य कर्मफलत्वं दृष्टं, यथा स्वर्गस्य यागोत्पाद्यत्वं, शब्दराशि -
रूपवेदस्य अध्ययनाप्यत्वं, व्रीहीणां प्रोक्षणादि-संस्कारसंस्कार्यत्वं, अव-
घातादिभिः वैतुष्यसंपादनद्वारा विकार्यत्वं तेषां । तत्र नित्यत्वात् नोत्पाद्यत्वं

मन्येन एकशृं