This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
अविद्याकाम-कर्मादिपाशबन्धं विमोचितुं ।

कश्शक्नुयाद्विनात्मानं कल्पकोटिशतैरपि ॥५७॥
 
" (6
 
"
 
[[
 

 
पूर्वपूर्वस्य उत्तरोत्तरहेतुत्वं, स्वस्वरूपाज्ञानात् बाह्येषु कामः, ततः

कर्मणि प्रवृत्तिः, नहि लब्धसाक्षात्काराः किंचित्कामयंते "कृतात्मनस्त्विहैव

सर्वे प्रविलीयन्ति कामाः " "रसोप्यस्य परं दृष्ट्वा निवर्तते इत्यादि-

श्रुतिस्मृतिभ्यः । कामाभावे कर्म कुतः ? "यद्यद्धि कुरुते जन्तुः तत्तत्का-

मस्य चेष्टितं " इति स्मृतेः । तथाच अज्ञानाशाधर्माधर्म-रूपपाशप्रयुक्तं

बन्धं अनात्माध्यासं विमोचितुं, आत्मसाक्षात्कारेण विना त्यक्तुं, कल्प-

कोटिशतैरपि कल्पानां कोटयः तेषां शतानि तैरपि आत्मानं विना कोवा

शक्नुयादित्यर्थः । अतीतानन्तरश्लोकोक्तरीत्या स्वस्वरूपस्य स्वेनैव

साक्षात्कर्तव्यत्वात् तं विना अज्ञानानिवृत्तौ कामकर्मादे: नैव निवृत्तिरिति

भावः। आदिपदेन जन्मजरामरणसुख-दुःखादिपरिग्रहः ॥५७॥
 
३८
 

 
इदानीं " वदन्तु शास्त्राणि " इत्यत्रोक्तरीत्या गुरुशिष्यसंवाद-

रूपेस्मिन् ग्रन्थे '"तमेव विदित्वा -तिमुत्युमेति, नान्यः पन्था विद्यतेऽयनाय'
"
"ज्ञानादेव तु कैवल्यम्" इत्यादिश्रुत्यनुसारेण ब्रह्मात्मैकत्वबोधव्यति-

रिक्तस्य मोक्षहेतुत्वं व्यासेधति । न योगेनेति ।
 

 
न योगेन न सांख्येन कर्मणा नो न विद्यया ।

ब्रह्मात्मैकत्वबोधेन मोक्षस्सिध्यति नान्यथा ॥ ५८ ॥
 
,
 

 
मोक्षः ब्रह्मस्वरूपेणावस्थान- लक्षणमोक्षः, ब्रह्मात्मैकत्वबोधेन ब्रह्म

च आत्मा च ब्रह्मात्मानौ तयोरेकत्वमभेदः तद्द्बोधः तत्साक्षात्कार : तेन

सिध्यति अभिव्यज्यते ॥ नान्यथा अन्येन प्रकारेण न सिध्यतीत्यर्थः ।

तदेव विशदयति, योगेन मोक्षो न सिध्यति, योगशास्त्रजन्यज्ञानेन भेद-

विषयेण, चित्तवृत्तिनिरोध-रूपयोगेन वा मोक्षो न भवतीत्यर्थः । एवं

सांख्येन कपिलमहर्षिप्रणीत-सांख्यशास्त्रजन्यज्ञानेन वा नानात्मविषयेण

मोक्षो न सिध्यति । कर्मणा पूर्वकाण्डविहित-यज्ञादिकर्मणा न सिध्यति ।

न विद्ययेति, उपनिषद्विहितयापि विद्यया सगुणोपासनया कैवल्यरूपमोक्षो न

सिध्यतीति। तत्र योगसांख्य-शास्त्रजन्यज्ञानस्य भेदविषयत्वात्, "यदाह्ये-

वैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति " इति अभयप्रापकत्व-