This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
अविद्याकाम-कर्मादिपाशबन्धं विमोचितुं ।
कश्शक्नुयाद्विनात्मानं कल्पकोटिशतैरपि ॥५७॥
 
" (6
 
"
 
[[
 
पूर्वपूर्वस्य उत्तरोत्तरहेतुत्वं, स्वस्वरूपाज्ञानात् बाह्येषु कामः, ततः
कर्मणि प्रवृत्तिः, नहि लब्धसाक्षात्काराः किंचित्कामयंते "कृतात्मनस्त्विहैव
सर्वे प्रविलीयन्ति कामाः रसोप्यस्य परं दृष्ट्वा निवर्तते इत्यादि-
श्रुतिस्मृतिभ्यः । कामाभावे कर्म कुतः ? यद्यद्धि कुरुते जन्तुः तत्तत्का-
मस्य चेष्टितं " इति स्मृतेः । तथाच अज्ञानाशाधर्माधर्म-रूपपाशप्रयुक्तं
बन्धं अनात्माध्यासं विमोचितुं, आत्मसाक्षात्कारेण विना त्यक्तुं, कल्प-
कोटिशतैरपि कल्पानां कोटयः तेषां शतानि तैरपि आत्मानं विना कोवा
शक्नुयादित्यर्थः । अतीतानन्तरश्लोकोक्तरीत्या स्वस्वरूपस्य स्वेनैव
साक्षात्कर्तव्यत्वात् तं विना अज्ञानानिवृत्तौ कामकर्मादे: नैव निवृत्तिरिति
भावः। आदिपदेन जन्मजरामरणसुख-दुःखादिपरिग्रहः ॥५७॥
 
३८
 
इदानीं " वदन्तु शास्त्राणि " इत्यत्रोक्तरीत्या गुरुशिष्यसंवाद-
रूपेस्मिन् ग्रन्थे 'तमेव विदित्वा -तिमुत्युमेति, नान्यः पन्था विद्यतेऽयनाय'
"ज्ञानादेव तु कैवल्यम्" इत्यादिश्रुत्यनुसारेण ब्रह्मात्मैकत्वबोधव्यति-
रिक्तस्य मोक्षहेतुत्वं व्यासेधति । न योगेनेति ।
 
न योगेन न सांख्येन कर्मणा नो न विद्यया ।
ब्रह्मात्मैकत्वबोधेन मोक्षस्सिध्यति नान्यथा ॥ ५८ ॥
 
,
 
मोक्षः ब्रह्मस्वरूपेणावस्थान- लक्षणमोक्षः ब्रह्मात्मैकत्वबोधेन ब्रह्म
च आत्मा च ब्रह्मात्मानौ तयोरेकत्वमभेदः तद्द्बोधः तत्साक्षात्कार : तेन
सिध्यति अभिव्यज्यते ॥ नान्यथा अन्येन प्रकारेण न सिध्यतीत्यर्थः ।
तदेव विशदयति, योगेन मोक्षो न सिध्यति, योगशास्त्रजन्यज्ञानेन भेद-
विषयेण, चित्तवृत्तिनिरोध-रूपयोगेन वा मोक्षो न भवतीत्यर्थः । एवं
सांख्येन कपिलमषिप्रणीत-सांख्यशास्त्रजन्यज्ञानेन वा नानात्मविषयेण
मोक्षो न सिध्यति । कर्मणा पूर्वकाण्डविहित-यज्ञादिकर्मणा न सिध्यति ।
न विद्ययेति, उपनिषद्विहितयापि विद्यया सगुणोपासनया कैवल्यरूपमोक्षो न
सिध्यतीति। तत्र योगसांख्य-शास्त्रजन्यज्ञानस्य भेदविषयत्वात्, "यदाह्ये-
वैष एतस्मिन्नुदरमन्तरं कुरुते । अथ तस्य भयं भवति " इति अभयप्रापकत्व-