This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
मस्तकन्यस्तभारादेः दुःखमन्यैर्निवार्यते ।

क्षुधादिकृतदुःखं तु विना स्वेन न केनचित् ॥५४॥
 

 
मस्तके न्यस्तः भारः यस्य, आदिपदेन शृंखलादि-निगडित-

करचरणादिः तस्य दुःखं अन्यैर्निवार्यते भाराधस्स्थापनादिना श्रृंखलादि-

मोचनेन वा। क्षुधादिकृतदुःखं स्वेन विना केनचिदन्येन न निवार्यंत इत्यर्थः ।

नह्यन्यस्मिन् पुत्रादौ भुंजाने वारि पिबति वा पितुः क्षुत्पिपासा - -निवृत्ति-

र्
दृष्टा ॥५४॥
 

 
दृष्टान्तान्तरमाह । पथ्यमिति ।
 

 
पथ्यमौषधसेवा च क्रियते येन रोगिणा ।

आरोग्यसिद्धिर्दृष्टास्य नान्यानुष्ठितकर्मणा ॥५५॥
 

 
येन रोगिणा पथ्यं सेव्यते औषधसेवा च क्रियते तस्यैवारोग्यसिद्धिः

दृष्टा । अन्येन पथ्यमौषधसेवा च क्रियते । चेत् अन्यदीयरोगनिवृत्तिः

न दृष्टेत्यथः । पथ्यमौषधसेवा चेति द्वयकथनेन दृढतरसाधनचतुष्टय-

संपत्तिः वेदान्तश्रवणं च ज्ञानहेतुरिति व्यंजितम् ॥ ५५ ॥
 

 
वस्तुस्वरूपं स्फुटबोधचक्षुषा स्वेनैव वेद्यं न तु पण्डितेन ।

चन्द्रस्वरूपं निजचक्षुषैव ज्ञातव्यमन्यैरवगम्यते किम् ॥५६॥

 
स्फुट: निर्मल: संशयत्वाद्यनास्कंदितः यो बोधः श्रवणमनन-

निदिध्यासनजातः साक्षात्कार : तेन वस्तु-स्वरूपं आत्मरूपवस्तुयाथात्म्यं

परमात्माभिन्नत्वमिति यावत् । स्वेनैव वेद्यं विषयीकर्तव्यम् नतु स्वभिन्नेन

केनचित्पण्डितेन वेद्यं। शुकवामदेवादयः परं ब्रह्म साक्षात्कृत्य मुक्ता

बभूवुः। तेन इतरेषां किं जातमिति भावः । तत्रानुरूपं दृष्टान्तमाह

तापवारकाह्लादजनक-चन्द्रस्वरूपं निजचक्षुषैव ज्ञातव्यम्। अन्यैः चक्षु-

र्हीनैः अवगम्यते किम् ? यद्वा चक्षुष्मद्भिरप्यन्यैः स्वभिन्नैरवगम्यते चेत्

एतदीयतापं हरति वा एतमाह्लादयति वा चन्द्रस्वरूपं ? तद्वदित्यर्थ:

॥५६॥
 

 
लोकप्रसिद्ध-पाशादिन्धं अन्यो मोचयितुं शक्नुयात् नानादि-

सिद्धबन्धमित्याह । अविद्येति ।