This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
मस्तकन्यस्तभारादेः दुःखमन्यैनिवार्यते ।
क्षुधादिकृतदुःखं तु विना स्वेन न केनचित् ॥५४॥
 
मस्तके न्यस्तः भारः यस्य, आदिपदेन शृंखलादि-निगडित-
करचरणादिः तस्य दुःखं अन्यैनिवार्यते भाराधस्स्थापनादिना श्रृंखलादि-
मोचनेन वा। क्षुधादिकृतदुःखं स्वेन विना केनचिदन्येन न निवार्यंत इत्यर्थः ।
नह्यन्यस्मिन् पुत्रादौ भुंजाने वारि पिबति वा पितुः क्षुत्पिपासा - निवृत्ति-
दृष्टा ॥५४॥
 
दृष्टान्तान्तरमाह । पथ्यमिति ।
 
पथ्यमौषधसेवा च क्रियते येन रोगिणा ।
आरोग्यसिद्धिदृष्टास्य नान्यानुष्ठितकर्मणा ॥५५॥
 
येन रोगिणा पथ्यं सेव्यते औषधसेवा च क्रियते तस्यैवारोग्यसिद्धिः
दृष्टा । अन्येन पथ्यमौषधसेवा च क्रियते । चेत् अन्यदीयरोगनिवृत्तिः
न दृष्टेत्यथः । पथ्यमौषधसेवा चेति द्वयकथनेन दृढतरसाधनचतुष्टय-
संपत्तिः वेदान्तश्रवणं च ज्ञानहेतुरिति व्यंजितम् ॥ ५५ ॥
 
वस्तुस्वरूपं स्फुटबोधचक्षुषा स्वेनैव वेद्यं न तु पण्डितेन ।
चन्द्रस्वरूपं निजचक्षुषैव ज्ञातव्यमन्यैरवगम्यते किम् ॥५६॥
स्फुट: निर्मल: संशयत्वाद्यनास्कंदितः यो बोधः श्रवणमनन-
निदिध्यासनजातः साक्षात्कार : तेन वस्तु-स्वरूपं आत्मरूपवस्तुयाथात्म्यं
परमात्माभिन्नत्वमिति यावत् । स्वेनैव वेद्यं विषयीकर्तव्यम् नतु स्वभिन्नेन
केनचित्पण्डितेन वेद्यं। शुकवामदेवादयः परं ब्रह्म साक्षात्कृत्य मुक्ता
बभूवुः। तेन इतरेषां किं जातमिति भावः । तत्रानुरूपं दृष्टान्तमाह
तापवारकाह्लादजनक-चन्द्रस्वरूपं निजचक्षुषैव ज्ञातव्यम्। अन्यैः चक्षु-
र्हीनैः अवगम्यते किम् ? यद्वा चक्षुष्मद्भिरप्यन्यैः स्वभिन्नैरवगम्यते चेत्
एतदीयतापं हरति वा एतमाह्लादयति वा चन्द्रस्वरूपं ? तद्वदित्यर्थ:
॥५६॥
 
लोकप्रसिद्ध-पाशादिवन्धं अन्यो मोचयितुं शक्नुयात नानादि-
सिद्धबन्धमत्याह । अविद्येति ।