2023-02-20 14:42:36 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
तत्र हेतुं स्पष्टयति यद्यस्मात् कारणात् अविद्याबन्धमुक्त्या अविद्या-
प्रयोज्याहंकारादि-देहान्तबन्धपरित्यागेन, ब्रह्मीभवितुं ब्रह्मस्वरूपेणैव वर्तितुं
इच्छसि तस्मादिति अनेन तीववैराग्यानन्तर-कालिक तीव्रमुमुक्षा उक्ता ।
एतादृशः अस्मिन्नेव जन्मनि परं ब्रह्म साक्षात्कृत्य कुलं जगच्च पवित्र-
यिष्यतीत्यभिप्रायः । ननु ब्रह्मीभवितुमित्यत्र " अभूततद्भावे च्चि: "
इत्यनुशासनानुसारेण अभूतः पूर्वमस्थितः ब्रह्मभाव: पश्चाद्भविष्यतीति
प्रतीयते, तर्हि ब्रह्मभावस्य आगन्तुकत्वात् तद्रूपस्य मोक्षस्या प्यनित्यत्व-
मिति चेन्न, यद्यपि ब्रह्मैव जीवरूपेण वर्तते इति सर्वदा ब्रह्मभाव इष्ट एव
वर्तते, अथापि इदानीमज्ञातत्वात् अज्ञातत्व-ज्ञातत्वकृत-विशेषमाश्रित्य ब्रह्मी-
भवितुमिति च्वि-प्रत्ययप्रयोग इति मन्तव्यम् । इदानी-मज्ञानवशात् अब्रह्म-
रूपेण ब्रह्मण एव सतः स्थितिः, ज्ञानानन्तरं तु ब्रह्मात्मनैवावस्थानमित्या-
शयः । एतेन ब्रह्मभावस्या - गन्तुकत्वशंका परास्ता ॥५२॥
तत्र प्रथमतः सर्वेषां भवबन्ध-विमुक्त्यर्थं प्रवृत्तिसिद्धये तस्याः विमुक्तेः
स्वस्वमात्रलभ्यत्वं लोकानुजिघृक्षया उपदिशति गुरुः । तत्र जनाउदासीना
भूत्वा ईश्वरानुग्रहलब्धं जन्म व्यर्थयित्वा दुःखपरंपरां मानुभूवन्नित्यभि-
प्रायेण । ऋणमोचनेति ।
ऋणमोचनकर्तारः पितुस्सन्ति सुतादयः ।
बन्धमोचनकर्ता तु स्वस्मादन्यो न कश्चन ॥५३॥
लोके तावत् पुत्रपौत्रादयः पितुः ऋणमोचनकर्तारः सन्ति । ऋणात्
शास्त्रीयात् लौकिकाद्वा मोचयन्ति पुत्रप्राप्त्या तद्वाक्यानुपालनेन अर्थ -
समर्पणेन वा । बन्धमोचनकर्ता तु अनात्माहंकारादि-देहान्तबन्धमोचयिता
तु स्वस्मादन्यो न कश्चन, स्वस्य अन्तःकरणाद्यनात्मनि वर्तमानाध्यासः
स्वेनैव निवर्तनीयः नान्यस्तत्र प्रभुरित्यर्थः ॥५३॥
स्वीयतद्विषयकप्रत्यक्षप्रमायाएव स्वीयतद्विषयक-प्रत्क्ष भ्रमनिवर्तक-
त्वात् । यदि पिता मन्दान्धकारे पतितां रज्जु सर्पं मत्वा विभेति, तत्पुत्रः तां
रज्जुं साक्षात्कुर्वन्नपि पितुः साक्षात्कारमन्तरा नतद्भयं निवर्तयितुमीष्टे,
तद्वत् स्वानुभवसिद्धो बन्ध: स्वेनैव निवर्तनीयः नान्येनेत्यमुमर्थं बहुभिर्दुष्टान्तैः
द्रढयन्त्याचार्याः, दृढनिश्चितैतदर्थाः सहसा प्रवर्तन्तां जनाः स्ववन्धमुक्तय
इति । मस्तकेति ।