2023-02-20 14:42:36 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
३५
श्री गुरुरुवाच ।
31
श्रीयुतश्चासौ गुरुश्च श्रीगुरु:, " ऋचस्सामानि यजूंषि, साहि
श्रीरमृता सताम् " इति श्रुत्या ऋगादीनां शब्दरूपाणामेव अमृतसंपद्रूपत्वे
सकलवेदान्तान् तत्प्रतिपाद्यमर्थं च साक्षात्कृतवतो गुरोश्श्रीमत्वे किं
वक्तव्यम् ? सूर्यादि-सकल तेजोभानहेतुभूतब्रह्मतेजसा सम्पन्न इत्यर्थः ।
तादृशः शिष्यान्तरान्धकारनिरोधकः श्रीगुरुः शिष्येण पृष्टस्य उत्तरमुवाच ।
आदौ तन्मनोविकासार्थ श्लाघते । धन्योसीति ।
धन्योसि कृतकृत्योसि पावितं ते कुलं त्वया ।
यदविद्याबन्धमुक्त्या ब्रह्मीभवितुमिच्छसि ॥५२॥
धन्यः धनार्हः, "न खलु धनत्वं जातिः यस्य यदिष्टं तदेव तस्य धनं ।
तत्तदिव पामराणां आकिंचन्यं धनं विदुषाम् " इत्युक्तरीत्या विवृद्भिः
धनत्वेन सम्मतवैराग्यादिभाग्य - भागसीत्यर्थः । तत्र हेतुः कृतकृत्योसीति,
शास्त्रविहित कर्मानुष्ठानेन शुद्धचित्तोसीत्यर्थ: तदभावे संसारे वैराग्या-
नुत्पत्तेः । कृतानि कृत्यानि शास्त्रविहितानि येन स्ववर्णाश्रमोचितानि
कर्माणि साध्वनुष्ठाय चित्तं संशोध्य जाततीव्रवैराग्य: मुमुक्षुरसि । त्वया
एतादृशेन ते कुलं वंशः, सर्वोपि पावितम् पवित्रीकृतः । उक्तं हि " कुलं
पवित्रं जननी कृतार्था विश्वंभरा पुण्यवती चतेन । अपार - सच्चित्सुख-
सागरेस्मिन् लीनं परे ब्रह्मणि यस्य चेतः " इति "स्नातं तेन समस्ततीर्थ-
सलिले सर्वापि दत्तावनी, यज्ञानां च सहस्रमिष्टमखिला देवाश्च संपूजिताः ।
संसाराच्च समुद्धता-स्वपितर-स्त्रैलोक्यपूज्योप्यसौ, यस्य ब्रह्मविचारणे क्षण-
मपि स्थैर्यं मनः प्राप्नुयात् " इति च । यद्यपीदानीं तस्य ज्ञानं न जातं,
अथापि गुरूपदेशश्रवण- समनन्तरमेव उत्तमाधिकारित्वात् स जातज्ञानो
भवति । "परिपक्वमतेः सकृच्छ्रतं जनयेदात्मधियं श्रुतेर्वच: " इति
माधवीयशंकरविजये श्रीमदाचार्योक्तेः । " अत्यन्तवैराग्यवतः समाधिः
इत्यत्रैव वक्ष्यमाणत्वाच्च । क्षिप्रमेव ब्रह्मविलीनमनस्को भूत्वा कुलं
भुवं च पावयिष्यतीति भावः । न विषयभोगोभाग्यं, योग्यं खलुयत्र
जन्तुमात्रमपि । ब्रह्मेन्द्ररुद्रमृग्यं भाग्यं विषयेषु वैराग्यम्" इति वैराग्य-
भाग्यवत्वेन महापुण्यशालित्वात् इदानीमपि तस्य वंशपावयितृत्वमस्त्येव ।
[13]