This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
एतेन गुरुसन्निधावनिवेद्य प्रश्नो न कर्तव्य इति शिष्यधर्मो बोधितः ।
यस्य उत्तरं यदुत्तरं। तत्र प्रश्नोयं क्रियते मयेत्यनुक्त्वा, प्रथमं कृपया
श्रूयतामिति प्रार्थनोत्तरं तदुक्त्या गुरोः स्वस्मिन् दयाभिवृद्धये मानसमार्दवं
क्षिप्रजिज्ञासुत्वं च सूचितम्। भवन्मुखत्वेने स्वस्य अनन्यशरणत्वं
गमितम् ॥५०॥
 
३४
 
पृच्छति । कोनामेति ।
 
को नाम बन्धः कथमेष आगतः
कथं प्रतिष्ठास्य कथं विमोक्षः ।
कोसावनात्मा परमः क आत्मा
तयोविवेकः कथमेतदुच्यताम् ॥५१॥
 
प्रथमं बन्धस्वरूपं पृच्छति कोनाम बन्ध इति, तस्मिन् ज्ञाते तन्निवृत्तिः
युक्तेन उपायेन सुकरेति । तत्र कारणं पृच्छति कथमेष आगत इति,
तस्य स्थितौ हेतुं पृच्छति कथं प्रतिष्ठास्येति, अस्य बन्धस्य प्रतिष्ठा चिरकालं
स्थितिः, कथं कुतः, केन हेतुनेति यावत् । विमोक्षः निवृत्तिः । गुरुणा
परमात्मनस्तवानात्मबन्ध इत्युक्तत्वात्, कोसावनात्मा परम आत्मा कः ?
तयोविवेकोदितेत्युक्तत्वात्, तयोः अनात्मपरमात्मनोः विवेकः भेदग्रहः
कथं जायते, एतत्सर्वं उच्यतां दयया विस्तरेण उच्यतामिति भावः ।
यद्यपि श्रीचरणसंग्रहोक्त्या परमात्मनो मे अज्ञानयोगात् अनात्मबन्ध
इत्युक्त्या, कथमेष आगत इति किंचिज्ज्ञातमिव, तयो-विवेकोदित-
बोधवह्नि-रज्ञानकार्यं समूलं प्रदहेदित्यनेन कथं विमोक्ष इत्यपि किंचिज्ज्ञात-
मिव, अथापि केवलं शब्दमात्रश्रवणेन किंचिज्ज्ञातार्थस्यापि विस्तरेण
तन्निराकांक्षनिर्णयार्थं बन्धस्वरूपस्य तत्स्थितिहेतोः आत्मानात्मविवेकस्य
च सुतरामज्ञातत्वात् एतत्सर्वं सम्यक्छावयित्वा कृतार्थंयितव्यः दीन-
दीनोयं जनः इति भावः ॥५१॥
 
अनया प्रश्नवैखर्या पूर्वज्ञातत्रिकरणशुध्या च ब्रह्मविद्यायामुत्तमाधि-
कारिणं मत्वा ब्रह्मविचारे झटिति तस्य प्रवेशार्थं श्लाघते ।
विदुत्तमेनमहात्मना श्लाघितः स्वमनोगतं सकलं दुःखं दूरीकृत्य विचारो-
त्कमनाः ऐदंपर्येण परमात्मानं विचार्य झटिति कृतार्थ: स्यादिति भावः ।
 
ब्रह्म-