This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
इत्यत्र वै
 
मित्युक्तेः। तस्य अविद्याकल्पितात् अज्ञानमूलकात् देहबन्धात् अहंकारादि-

देहन्धात्, मोक्षः निवृत्तिः सिध्यत्येवेति शेषः । योवा
इत्यत्र वै
इत्यवधारणे, सअन्ते सम्बन्धनीयः । एतेष्वेवेत्यत्र अवधारणं उक्त-

साधनान्य-निष्ठत्वं वारयति ॥४८॥
 

 
इदानीं गुरुः संग्रहेण शिष्यं प्रति संसृतिहेतुं तन्निदानं तन्निवृत्युपायं

च सकारणमुपदिशति । अज्ञानयोगादिति ।

 
अज्ञानयोगात्परमात्मनस्तव ह्यनात्मबन्धस्तत एव संसृतिः ।

तयोविवेकोदित-बोधवह्निः अज्ञानकार्यं प्रदहेत्समूलम् ॥४९॥
 
३३
 

 
परमात्मनस्तव अज्ञानयोगात् अनाद्यविद्यासंबन्धात्, अनात्मबन्ध:

अनात्मसु स्थूलसूक्ष्म-कारणशरीरेष्वात्मत्वबुद्धिः । तत एव जन्मजरामरण-
तयोः आत्मानात्मनोः
 

 
 
सुखदुःखजडत्वादि-धर्माध्यासरूपा
 

 
संसृतिः ।
 
तयोः आत्मानात्मनोः
 
विवेकोदितबोधवह्निः विवेकः भेदज्ञानं तेन उदितो जातः बोधवह्निः

साक्षात्काररूपाग्निः समूलं अज्ञानरूपबीजोपेतं अज्ञानकार्यं अहंकारादि-

देहान्तबन्धं तत्प्रयोज्य-जन्मजरामरणादिरूप-संसारं च प्रदहेत् प्रकर्षेण

भस्मीकुर्यादित्यर्थः । तथाच संसृतिकारणं अनात्मबन्धः, तत्र कारणं

तवाज्ञानयोगः, तन्निवृत्युपाय: परमात्मबोधः तत्र कारणं आत्मानात्म-

विवेकः इति संग्रहेणोक्तम् । तेन वेदान्तविचारजन्योत्तमज्ञानस्य संसारदुःख-

नाशकत्वविषये उपपत्तिः प्रदर्शिता आज्ञानिकस्य बन्धस्य ज्ञानादेव

निवृत्तिः नान्यत इति ॥ ४९ ॥
 

 
इत्थं गुरुमुखारविन्द-निर्गलित-वाक्सुधास्यन्दानन्दितः शिष्यः तन्मुख-

कलश-निरर्गल-निर्गलद्वाक्य-पीयूषपारावारे गाढं मिमंक्षुः स्वकीय सकल-

संदेह - भंजनाय तं प्रष्टुं विनयेन प्रार्थयते ।
 

 
शिष्य उवाच ।
 

 
2
 

 
कृपया श्रूयतां स्वामिन् प्रश्नोयं क्रियते मया ।

यदुत्तरमहं श्रुत्वा कृतार्थ: स्यां भवान्मुखात् ॥५०॥