2023-02-23 11:41:14 by Vasant
This page has been fully proofread once and needs a second look.
विचारेण तन्निर्णयानुकूलमानस
शवलितं ज्ञानं निर्णय: जायते । तेन निर्णयेन आत्यंतिक-संसारदुःखनाशः
स्वसमानाधिकरण-दुःखप्रागभावासमानकालिकः दुःखनाशः, अनु तन्निर्णया-
नुपदं भवति भविष्यतीत्यर्थः ॥४७॥
३२
इदानीं तादृशनिर्णया- साधारण-हेतुनाह । श्रद्धेत्यादिना ।
श्रद्धाभक्ति-ध्यानयोगान् मुमुक्षोः मुक्तेर्हेतून् वक्ति
योवा एतेष्वेव तिष्ठत्यमुष्य मोक्षोऽविद्याकल्पिताद्देहबन्धात्
तत्र श्रद्धा-गुरुवेदान्त-वाक्यविश्वासः शास्त्रस्य गुरुवाक्यस्येत्यादिना
लक्षिता । भक्तिः स्वस्वरूपानुसंधानं निदिध्यासनं । ध्यानं, "तत्र प्रत्ययैक-
"
।
तानता ध्यानं इति सूत्रितं "सम्यगास्थापनं बुद्धेः शुद्धेः ब्रह्मणि सर्व-
देति " लक्षितम् समाधानं । योग: "योगश्चित्तवृत्तिनिरोधः" इति
सूत्रितः । तत्र श्रद्धा सर्वत्र हेतुः । भक्तिध्यानयोगानां मध्ये उत्तरोत्तरस्य
पूर्वपूर्वहेतुत्वं । चित्तवृत्तिनिरोधे समाधानस्य तस्मिन् श्रुताचार्योपदेशमनु
स्वस्वरूपानुसंधानरूपनिदिध्यासनस्य सम्भवात् । यद्वा ध्यै चिन्तायामिति
धातोः युक्तिभिरनुचिन्तनरूपं मननं निदिध्यासन-साक्षात्कारणमुच्यते ध्यान-
शब्देन, ज्ञानप्रतिबन्धक
त्रापि चित्तबाह्यवृत्ति
सम्बध्यते आत्मसाक्षात्कारेणानेनेति योगः, भक्तिश्चासौ योगः, ध्यानं च
तद्योगः इति भक्तियोगः ध्यानयोगः इति वा सं
मुक्तेः बन्धनिवृत्तेः, हेतून् श्रुतेर्गी: "श्रद्धाभक्ति-ध्यानयोगादवेहि " इति
कैवल्योपनिषत् साक्षाद्वक्ति प्रत्यक्षश्रुतिरित्यर्थः । यद्वा मुक्तेः मुक्तिहेतु-
ज्ञानस्य साक्षाद्धेतून् साक्षात्कारणानीति अवेहीति पदघटिता श्रुतिः वक्ति
इति वा अन्वयः । यो वै पुरुषः एतेष्वेव श्रद्धाभक्ति-ध्यानयोगेषु तिष्ठति,
श्रद्धालुः भक्तिमान् ध्याता योगौ च सदा भवति, अमुष्य अदश्शब्द-
प्रयोगेण तादृशाधिकारिण: दुर्लभत्वं सूचयति अदसस्तु विप्रकृष्ट-
"