This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
माभैष्ट विद्वंस्तव नास्त्यपाय: संसारसिंधोस्तरणेस्त्युपायः ।

येनैव याता यतयोस्य पारं तमेव मार्गं तव निर्दिशामि
॥४५॥
 
"C
 

 
हे विद्वान् भवान् माभैष्ट, भवतो भयं माभूदिति सहसा अभीतिर्दत्ता ।

विद्वन्निति संबोधयन् विवेकादिकं संपाद्य गुरुकरुणां विना दुःखतरणं

नभवतीति मां प्राप्तस्त्वं ज्ञातव्यं जानीष एव इति सूचयति, तादृशस्य

तव साधुयथोक्त कारिणः नास्त्यपायः "नहि कल्याणकृत्कश्चित् दुर्गति
तिं
तात गच्छति " इति स्मृतेः । अतः कथं तरेयम्, कावा गतिरिति मैव

भैषीरित्यर्थः। एवं मा भैष्ट तव कल्याणकर्तुः अपायो नास्तीति तमाश्वास्य

कतमोस्त्युपायः इत्यस्य उत्तरमाह संसारसिंधोस्तरणेस्त्युपाय इति । तत्र

सम्यग्विश्वासोत्पत्यर्थं तमुपायं सप्रमाणं कथयति । येनैव मार्गेण अस्य

संसारसिंधोः पारं अन्तं यतयः प्रयत्नशीलाः संन्यासिनः, याताः तमेव मार्गं

तव निर्दिशामि उपदिशामीत्यर्थः ॥४५॥
 

 
तादृशमार्ग-शुश्रूषाया-मौत्कटच ट्य-सिध्यर्थं पुनरपि सामान्यरूपेणैव

उपायं निर्दिशति । अस्तीति ।
 

 
अस्त्युपायो महान्कश्चित् संसारभयनाशनः ।
 

तेन तीर्त्वा भवाम्भोधिं परमानन्दमाप्स्यसि ॥४६॥

 
संसारभयनाशनः महान् बह्वायास-साध्यसाधनसाध्यः कश्चि-

दुपायोस्ति, तेन वक्ष्यमाणोपायेन भवाम्भोधिधिं दुस्तरं संसारसागरं ती
र्त्वा
तन्मूलभूतां अविद्यां भंक्त्वा परमानन्दं निरवधिकं शाश्वतं संतोषं, आप्स्यसि

लप्स्यसे इत्यर्थः। तेन दुःखनिवृत्तिरेव त्वया काम्यते मयोपदेक्ष्यमाणो-

पायेन तु दुःखमप्यत्यंतं निवर्तते, नित्यनिरतिशयानन्दाविर्भावश्च तव

भवतीति शिष्यः अत्यन्तमाप्यायित इति भावः ॥४६॥
 

 
तमुपायं विशेषतो निर्दिशति । वेदान्तेति ।

 
वेदान्तार्थ-विचारेण जायते ज्ञानमुत्तमम् ।

तेनात्यंतिक-संसारदुःखनाशो भवत्यनु ॥४७॥
 

 
वेदानामन्ताः वेदान्ता: उपनिषदः तासां योर्थः तद्विचारेण,

उपक्रमोपसंहारादि-षड्विध-तात्पर्यलिंगैः प्रतिपाद्यमानः सजातीय-