This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
माभैष्ट विद्वंस्तव नास्त्यपाय: संसारसिंधोस्तरणेस्त्युपायः ।
येनैव याता यतयोस्य पारं तमेव मार्ग तव निर्दिशामि
॥४५॥
 
"C
 
हे विद्वान् भवान् माभैष्ट, भवतो भयं माभूदिति सहसा अभीतिर्दत्ता ।
विद्वन्निति संबोधयन् विवेकादिकं संपाद्य गुरुकरुणां विना दुःखतरणं
नभवतीति मां प्राप्तस्त्वं ज्ञातव्यं जानीष एव इति सूचयति, तादृशस्य
तव साधुयथोक्त कारिणः नास्त्यपायः नहि कल्याणकृत्कश्चित् दुर्गति
तात गच्छति " इति स्मृतेः । अतः कथं तरेयम्, कावा गतिरिति मैव
भैषीरित्यर्थः। एवं मा भैष्ट तव कल्याणकर्तुः अपायो नास्तीति तमाश्वास्य
कतमोस्त्युपायः इत्यस्य उत्तरमाह संसारसिंधोस्तरणेस्त्युपाय इति । तत्र
सम्यग्विश्वासोत्पत्यर्थं तमुपायं सप्रमाणं कथयति । येनैव मार्गेण अस्य
संसारसिंधोः पारं अन्तं यतयः प्रयत्नशीलाः संन्यासिनः, याताः तमेव मार्गं
तव निदिशामि उपदिशामीत्यर्थः ॥४५॥
 
तादृशमार्ग-शुश्रूषाया-मौत्कटच सिध्यर्थं पुनरपि सामान्यरूपेणैव
उपायं निर्दिशति । अस्तीति ।
 
अस्त्युपायो महान्कश्चित् संसारभयनाशनः ।
 
तेन तीर्त्वा भवाम्भोधिं परमानन्दमाप्स्यसि ॥४६॥
संसारभयनाशनः महान् बह्वायास-साध्यसाधनसाध्यः कश्चि-
दुपायोस्ति, तेन वक्ष्यमाणोपायेन भवाम्भोधि दुस्तरं संसारसागरं तीव
तन्मूलभूतां अविद्यां भक्त्वा परमानन्दं निरवधिकं शाश्वतं संतोषं, आप्स्यसि
लप्स्यसे इत्यर्थः। तेन दुःखनिवृत्तिरेव त्वया काम्यते मयोपदेक्ष्यमाणो-
पायेन तु दुःखमप्यत्यंतं निवर्तते, नित्यनिरतिशयानन्दाविर्भावश्च तव
भवतीति शिष्यः अत्यन्तमाप्यायित इति भावः ॥४६॥
 
तमुपायं विशेषतो निर्दिशति । वेदान्तेति ।
वेदान्तार्थ-विचारेण जायते ज्ञानमुत्तमम् ।
तेनात्यंतिक-संसारदुःखनाशो भवत्यनु ॥४७॥
 
वेदानामन्ताः वेदान्ता: उपनिषदः तासां योर्थः तद्विचारेण,
उपक्रमोपसंहारादि-षड्विध-तात्पर्यलिंगैः प्रतिपाद्यमानः सजातीय-