2023-02-23 11:27:57 by Vasant
This page has been fully proofread once and needs a second look.
सम्यज्ज्ञातुं शक्यत्वात् अधिकारिणं ज्ञात्वैव अभयदानोपदेशादिकं गुरुभिः
कर्तव्यमिति द्योतितम्। संसारदावानल
रक्षकत्वेन मत्वा प्राप्तं, कारुण्यरसादृष्ट्या निरीक्ष्य, महात्मा अक्षुद्रबुद्धिः,
गुरुः सहसाऽभी
व्यंजितं । अभयदानेन निवृत्तभीतेरेव पुरुषस्य उपदिष्टार्थग्रहणादौ
सामर्थ्
इति च सहसेत्युक्तम् । भीतस्याभयदानं प्रथमतः कर्तव्यमित्युक्त्वा
अधिकारानुसारेण उपदेशः अनन्तरकालिक इति बोधयति विद्वानि
।
३०
स विद्वान् ब्रह्मवित्तमो देशिक
गताय मुमुक्षवे मोक्षं कामयमानाय, साधुयथोक्तकारिणे सम्यग्विहितानु-
ष्ठात्रे । एतेन शिष्टत्वमुक्तम् । "नाविरतो दुश्चरितात् नाशान्तो
नासमाहितः। नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् " इत्युक्तत्वात् ।
श्रोत्रियत्वं अवृजिनत्वं मोक्षकामव्यतिरिक्त कामशून्यत्वम् चशिष्ये
अवेक्षणीयमिति भावः । प्रशान्तचित्ताय देहादिब्रह्मपर्यन्तभोग्यवस्तुनो
विरज्य, स्वलक्ष्ये नियतावस्थितमनस्काय, शमान्विताय निगृहीत-बहि-
रिन्द्रियाय, एतेन शमादिषट्कमुक्तं अधिकारिविशेषणं । तस्मै वैराग्यादि-
गुणगणमण्डिताय, तत्वोपदेशं कृपया तदीयदुःखप्रहाणेच्छया आप्तकामस्य
स्पृहान्तराभावात् कुर्यादेवेत्येवकारो भिन्नक्रमः । अधिकारिणि लब्धे
नोदासितव्यम्, पात्रे दत्ता ब्रह्मविद्या लोकानुग्रहार्थं प्रतिष्ठिताभवतीति
भावः । इत्थं च सर्वानर्थं
स्वशिष्यमोचनं च उपदेशस्य फलं । तत्र गुरुशिष्यसंवादरूपेण प्रकरण-
प्रणयनम् सुलभतया तत्वस्य श्रोतृबुध्यारोहाय । अत एव किलाख्या-
त्याख्यायिकां तत्र तत्र श्रुतिरपि । तेन गुरुलक्षणं शिष्यलक्षणं प्रष्टव्याद्यंशाः
सर्वे अनायासेन अस्माभिः ज्ञातुं शक्यन्ते इति ॥४४॥
।
परमकारुणिको गुरुः शिष्येण "
"
दर्शितां भी