This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
तथावदन्तमित्युक्त्या वाग्व्यापारेण तदीयाधिकारस्य आन्तरस्य
सम्यज्ज्ञातुं शक्यत्वात् अधिकारिणं ज्ञात्वैव अभयदानोपदेशादिकं गुरुभिः
कर्तव्यमिति द्योतितम्। संसारदावानल - तापतप्तं, स्वं स्वात्मानं शरणागतं
रक्षकत्वेन मत्वा प्राप्तं, कारुण्यरसादृष्ट्या निरीक्ष्य, महात्मा अक्षुद्रबुद्धिः,
गुरुः सहसाऽभीति दद्यादित्यनेन भीताः सहसा भीत्या मोचनीया इति
व्यंजितं । अभयदानेन निवृत्तभीतेरेव पुरुषस्य उपदिष्टार्थग्रहणादौ
सामर्थ्य संभवतीति भावः । भीतस्य भयं शक्तेन बहुकालं न स्थापनीयं
इति च सहसेत्युक्तम् । भीतस्याभयदानं प्रथमतः कर्तव्यमित्युक्त्वा
अधिकारानुसारेण उपदेशः अनन्तरकालिक इति बोधयति विद्वानि -
 
त्यादिना
 

 
३०
 
स विद्वान् ब्रह्मवित्तमो देशिक :उपसत्तिमीयुषे विधिवत्समीपं -
गताय मुमुक्षवे मोक्षं कामयमानाय, साधुयथोक्तकारिणे सम्यग्विहितानु-
ष्ठात्रे । एतेन शिष्टत्वमुक्तम् । "नाविरतो दुश्चरितात् नाशान्तो
नासमाहितः। नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् " इत्युक्तत्वात् ।
श्रोत्रियत्वं अवृजिनत्वं मोक्षकामव्यतिरिक्त कामशून्यत्वम् चशिष्ये
अवेक्षणीयमिति भावः । प्रशान्तचित्ताय देहादिब्रह्मपर्यन्तभोग्यवस्तुनो
विरज्य, स्वलक्ष्ये नियतावस्थितमनस्काय, शमान्विताय निगृहीत-बहि-
रिन्द्रियाय, एतेन शमादिषट्कमुक्तं अधिकारिविशेषणं । तस्मै वैराग्यादि-
गुणगणमण्डिताय, तत्वोपदेशं कृपया तदीयदुःखप्रहाणेच्छया आप्तकामस्य
स्पृहान्तराभावात् कुर्यादेवेत्येवकारो भिन्नक्रमः । अधिकारिणि लब्धे
नोदासितव्यम्, पात्रे दत्ता ब्रह्मविद्या लोकानुग्रहार्थं प्रतिष्ठिताभवतीति
भावः । इत्थं च सर्वानर्थं हेतुभूताविद्यानिवर्तक- ब्रह्मविद्यापारंपर्या-विच्छेदः
स्वशिष्यमोचनं च उपदेशस्य फलं । तत्र गुरुशिष्यसंवादरूपेण प्रकरण-
प्रणयनम् सुलभतया तत्वस्य श्रोतृबुध्यारोहाय । अत एव किलाख्या-
त्याख्यायिकां तत्र तत्र श्रुतिरपि । तेन गुरुलक्षणं शिष्यलक्षणं प्रष्टव्याद्यंशाः
सर्वे अनायासेन अस्माभिः ज्ञातुं शक्यन्ते इति ॥४४॥
 

 
परमकारुणिको गुरुः शिष्येण " कथं तरेयं भवसिधुमेतं " इत्यादिना
"
दर्शितां भीति झटिति निनाशयिषुराह । माभैष्टेति ।