This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
ज्ञानोपदेशरूपत्वेन पूतत्वम् । सुशीतैः आन्तराणां आध्यात्मिका-धिदैविका-

धिभौतिक तापानां नाशकत्वात् । सितैः रजस्तमो-मार्गनिवर्तनद्वारा

सत्वमार्गैक-प्रापकत्वेन निर्मलैः । युष्मद्वाक्कलशोज्झितैः युष्माकं वाक्

युष्मद्वाक्, वागिंद्रियं तत्स्थानं मुखं वा स एव कलश: घटः ततो निर्गलन्ति

वाक्यामृतानीति, तेन उज्झितैः विसृष्टैः श्रुतिसुखैः कर्णानन्ददायकैः,

वाक्यामृतैः वाक्यान्येवामृतानि तैरित्यर्थ: । सेचय मां सिचेत्यर्थः । स्वार्थे

णिच् । पूतत्वं सुशीतत्वं सितत्वं कलशोज्झितत्वं वाक्येष्वमृते चाविशिष्ट-

मिति वाक्यान्यमृतत्वेन रूपितानि । पूतत्वे हेतुः ब्रह्मानन्द - -रसानुभूति -

कलितैरिति, श्रुतिसुखैरिति श्रवणकालेपि आनन्दकरैरित्यनेन तदर्थमनुसंधाय

यद्यनुभवउत्पद्येत तादात्विक : आनन्द: किमु वक्तव्य इति भावः ॥४१॥
 

 
पूर्वं भीतं प्रपन्नं इत्यत्रोक्तां भीति स्पष्टयति सहसा स्वस्मिन्ननु-

ग्रहसिध्यर्थम् । कथमित्यादिना ।
 
२९
 

 
कथं तरेयं भवसिंधुमेतं का वा गति कतमोस्त्युपायः ।

जाने न किंचित्कृपयाव मां प्रभो संसारदुःख क्षतिमातनुष्व
 
॥४२॥
 

 
एतं बहुविध - -दुर्वार- दुःखजालजटिलं भवसिंधु कथं तरेयम् । एवमेव

यदि वर्तेय मे कावा गतिः ? मया किं तावत्प्राप्यं ? सर्वथा दुःखमेवेति

भावः । अतः कतमोस्त्युपायः एतद्भवसिंधु-तरणे कोवोपायोस्ति ?

अहं तावत् किंचिदपि न जाने । मामव एवं भीतं परिपाहि । अवनं

स्पष्टम् प्रार्थयते संसारदुःख -क्षतिमातनुष्वेति । सांसारिक -शोकं समूल-

घातं जहीत्यर्थः ॥४२॥
 

 
इदानीं गुरोः कर्तव्यमुपदिशति, तथेत्यादिना, श्लोकद्वयेन ।

 
तथावदन्तं शरणागतं स्वं, संसारदावानल-तापतप्तम् ।

निरीक्ष्य कारुण्यरसार्द्र- दृष्ट्या दद्यादभीतितिं सहसा
 
महात्मा ॥४३॥
 

 
विद्वान्स तस्मा उपसत्तिमीयुषे मुमुक्षवे साधु यथोक्त-
कारिणे ।
 

प्रशान्तचित्ताय शमान्विताय तत्त्वोपदेशं कृपयैव कुर्यात्
 
॥४४॥