This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
ज्ञानोपदेशरूपत्वेन पूतत्वम् । सुशीतैः आन्तराणां आध्यात्मिका-धिदैविका-
धिभौतिक तापानां नाशकत्वात् । सितैः रजस्तमो-मार्गनिवर्तनद्वारा
सत्वमार्गैक-प्रापकत्वेन निर्मलैः । युष्मद्वाक्कलशोज्झितैः युष्माकं वाक्
युष्मद्वाक्, वागिंद्रियं तत्स्थानं मुखं वा स एव कलश: घटः ततो निर्गलन्ति
वाक्यामृतानीति, तेन उज्झितैः विसृष्टैः श्रुतिसुखैः कर्णानन्ददायकैः,
वाक्यामृतैः वाक्यान्येवामृतानि तैरित्यर्थ: । सेचय मां सिचेत्यर्थः । स्वार्थे
णिच् । पूतत्वं सुशीतत्वं सितत्वं कलशोज्झितत्वं वाक्येष्वमृते चाविशिष्ट-
मिति वाक्यान्यमृतत्वेन रूपितानि । पूतत्वे हेतुः ब्रह्मानन्द - रसानुभूति -
कलितैरिति, श्रुतिसुखैरिति श्रवणकालेपि आनन्दकरैरित्यनेन तदर्थमनुसंधाय
यद्यनुभवउत्पद्येत तादात्विक : आनन्द: किमु वक्तव्य इति भावः ॥४१॥
 
पूर्वं भीतं प्रपन्नं इत्यत्रोक्तां भीति स्पष्टयति सहसा स्वस्मिन्ननु-
ग्रहसिध्यर्थम् । कथमित्यादिना ।
 
२९
 
कथं तरेयं भवसिंधुमेतं का वा गति कतमोस्त्युपायः ।
जाने न किंचित्कृपयाव मां प्रभो संसारदुःख क्षतिमातनुष्व
 
॥४२॥
 
एतं बहुविध - दुर्वार- दुःखजालजटिलं भवसिंधु कथं तरेयम् । एवमेव
यदि वर्तेय मे कावा गतिः ? मया किं तावत्प्राप्यं ? सर्वथा दुःखमेवेति
भावः । अतः कतमोस्त्युपायः एतद्भवसिंधु-तरणे कोवोपायोस्ति ?
अहं तावत् किंचिदपि न जाने । मामव एवं भीतं परिपाहि । अवनं
स्पष्टम् प्रार्थयते संसारदुःख क्षतिमातनुष्वेति । सांसारिक शोकं समूल-
घातं जहीत्यर्थः ॥४२॥
 
इदानीं गुरोः कर्तव्यमुपदिशति तथेत्यादिना, श्लोकद्वयेन ।
तथावदन्तं शरणागतं स्वं, संसारदावानल-तापतप्तम् ।
निरीक्ष्य कारुण्यरसार्द्र- दृष्ट्या दद्यादभीति सहसा
 
महात्मा ॥४३॥
 
विद्वान्स तस्मा उपसत्तिमीयुषे मुमुक्षवे साधु यथोक्त-
कारिणे ।
 
प्रशान्तचित्ताय शमान्विताय तत्त्वोपदेशं कृपयैव कुर्यात्
 
॥४४॥