2023-02-20 14:42:35 by ambuda-bot
This page has not been fully proofread.
२८
श्रीविवेकचूडामणिः सव्याख्यः
नोदप्रवणं परेषां यश्श्रमः दुःखं तस्यापनोदः निवारणं तत्र प्रवणं भावप्रधानो
निर्देशः प्रवणभावः प्रवणता सक्तता वैयग्रयमित्यर्थः । इति यत् अयं
स्वभाव : महात्मनां स्वत एव । परप्रेरणादिकं तत्र नापेक्ष्यत इत्यर्थः ।
तत्र दृष्टान्तमाह सुधांशुरित्यादिना । अर्क-कर्कश - प्रभाभितप्तां अर्कस्य
सूर्यस्य या कर्कशा तीक्ष्णा प्रभा प्रकाशः तया अभितः तप्तां क्षिति भूमि,
सुधांशुः अमृतकिरणश्चन्द्रः एषः प्रसिद्धः समीपवर्ती, स्वयं पराप्रेरितः
अवति रक्षति, किलेति प्रसिद्ध ॥४०॥
एवं विनीतवेषेण तदनुसारिण्या वाचा तदभिव्यंजितभक्त्याच
आर्तः अनन्यशरणोयं सर्वथा रक्षणीय इत्यभिप्रायेण स्वाभिमुखं स्वात्मानं
सानुग्रहानुकम्पामृत-वर्षिकटाक्षैः पावयन्तं देशिकोत्तमं स्वबन्धमोचकोप-
देशाय धैर्येण प्रार्थयते । ब्रह्मानन्देत्यादिना ।
ब्रह्मानन्द - रसानुभूति-कलितैः पूतैः सुशीतैः सितैः
युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैः वाक्यामृतैः सेचय
।
संतप्तं भवतापदावदहन- ज्वालाभिरेनं प्रभो
धन्यास्ते भवदीक्षण-क्षणगतेः पात्रीकृताः स्वीकृताः ॥४१॥
हे प्रभो सर्वशक्त, भवदीक्षणक्षणगतेः भवतां यदीक्षणं दयार्द्र-
विलोकनं, तस्य क्षणगते क्षणप्राप्ते, पात्रीकृता: आस्पदीभूताः, यद्वा
भवतां यदीक्षणं नयनं तस्य क्षणगतेः क्षणसंयोगस्य पात्रीकृताः आश्रयी-
भूताः क्षणमात्रं वा भवन्नेत्रपातलक्ष्या इति यावत् । अत एव स्वीकृताः
आत्मीयत्वेन कृताः ये पुरुषाः ते धन्याः कृतार्थाः ।
भवत्कटाक्षेण पातिततमाः पाविततमश्च धन्योस्मि ।
तस्मादहमपि
अतिक्षिप्रं
सांसारिकाग्नि तापं शिशमयिषुः एवं प्रार्थये इति सूचयति । " श्रेयसि
केन तृप्यते " इति न्यायेन कटाक्षपात्रं मां स्वीकृतं भवताप-दावदहन -
ज्वालाभिः भवस्य तापः भवतापः, संसारशोकः स एव दावदहनः वनाग्निः,
तज्ज्वालाभिः संतप्तं अत्यन्तदग्धं, एनं पुरोवर्तिनं, मां ब्रह्मानन्द एवं रस
इव आस्वद्यत इति रसः, तदनुभूतिकलितैः तदनुभवमिश्रः, अत एव
पूतैः सकलकल्मष-हारकत्वेन पवित्रैः न हि ज्ञानेन सदृशं पवित्रमिह
विद्यत" इति स्मृतेः । तादृशज्ञानवत् वाक्यानां सकल-पापापहारक-
66