This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
शरीरोत्क्रमणरूप-मरणं नसंभवतीति भावः ।" नतस्य प्राणा उत्क्रामन्ति

अत्रैव समवनीयन्ते " इति श्रुतेः । तथाच " ध्रुवं जन्म मृतस्य च " इत्युक्त-

त्वात् मरणाभावे जन्माभावस्य सिद्धत्वात् जन्ममरण-प्रवाहरूपसंसारात्

मुक्तो भवामि भवदनुग्रहे इति भावः । स्वस्यानन्यशरणत्वं गुर्वाभिमुख्याय

प्रकटयति शरण्यमन्यं यदहं न जाने इति । भवदन्यं शरण्यं मद्रक्षकं

यत् यस्मात् अहं न जाने । अतोऽनन्यशरणोयं नोदासितव्य इति भावः ।
॥३८॥
 
२७
 

 
श्लोकद्वयेन भवादृशां सत्पुरुषाणां अस्मासु करुणा निर्व्याजैवेत्याह

शान्ता इति ।
 

 
शान्ता महान्तो निवसन्ति सन्तो वसन्तवल्लोकहितं चरन्तः ।

तीर्णास्स्वयं भीमभवार्णवं जनानहेतुना - -न्यानपि तारयन्तः
 
॥३९॥
 

 
अयं स्वभावस्स्वत एव यत्पर-श्रमापनोदप्रवणं महात्मनाम् ।

सुधांशुरेष स्वयमर्क- कर्कश - -प्रभाभितप्ता-मवति क्षितिं किल
 
॥४०॥
 

 
वर्षासु वृष्टिबाधा, ग्रीष्मे तापः, शरदि प्रारम्भे सुखं, नमासद्वये

कार्तिकान्तिम-भागस्य यमदंष्ट्रात्वकीर्तनात्, हेमन्त - -शिशिरयो - ३-श्शैत्यं,

सुगन्धिकुसुमाकरः वसन्तर्तुः कार्त्स्न्येन लोकस्य सुखं जनयतीति वसन्त-

वदित्युक्तम् तदा वर्ष-ताप-शैत्यरोगादीनामभावात् । स ऋतुः यथा

सुखमेव जनयति तथा लोकस्य सुखमेव तन्वानाः शान्ताः निर्विकार
-
मनस्का: अत एव महान्त:, अपरिच्छिन्नब्रह्म-साक्षात्कारवन्तः, अत एव

तादृशसद्ब्रह्माभेदेन सन्तः "ब्रह्मवित् ब्रह्मैव भवतीति श्रुतेः, स्वयं भीमः

भयंकरः यः भवार्णवः संसारसागरः तं तीर्णा: असंसारिण इत्यर्थः ।

स्वस्य आप्तकामत्वेन प्रयोजनाभावात् अहेतुना हेतुं विना, अन्यानपि

तारयन्तः भवाम्भोधि-मग्नानिति भावः । हेतुं विना कथं तेषां तत्तारणे

प्रवृत्तिः निर्निमित्त-प्रवृत्यभावात् इति शंकायामाह अयं स्वभाव इत्यादिना ।

नहि स्वभावे कारणं गवेषणीयम् । नहि शर्करायां माधुर्यं किंनिमित्त

मिति प्रश्नो युज्यते तत्र तस्य स्वभाविकत्वादित्यभिप्रायः । परश्रमाप-