This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
भवामीति भावः व्यंजितः । सूर्यमण्डलाद्वा दीपाद्वा किरणा: पुंजीभृय
भूय
रज्जुवद्यथा निष्काक्रामन्ति तथा चक्षुषोपि तेजस्त्वात् निष्क्रान्ता रश्मयः

एतस्मिन् संक्रान्ताः ब्रह्मनिष्ठ-मनस्संयुक्तत्वादेन- मुद्धरंतीति भावः । अति-

कारुण्यसुधाभिवृष्ट्या अत्यंतं कारुण्यं अतिकारुण्यं तदेव सुधा, सकलताप-

हारकत्वात् सुधेति रूप्यते । सुधा नामामृतं, तस्याः अभितो वृष्टिः

यस्यां दृष्ट्यां सा अतिकारुण्यसुधाभिवृष्टिः तया अतिकारुण्य-सुधाभि-

वृष्ट्या । अमृताभिवर्षणेन पुरुष: जरामरणादि-वर्जितो भवतीति प्रसिद्धं ।

युद्धे मृता वानरा इन्द्रकारितामृत-वर्षणेन उज्जीविता इति रामायणे

प्रसिद्धम् । तादृशामृतस्यैव तथात्वे ब्रह्मनिष्ठानुकम्पा-मृतवर्षणदृष्टि:

असंकुचित-जरामरणादि-वर्जितत्वं दास्यतीति भावः ॥३७॥
 
२६
 

 
स्वोद्धरणे विलम्ब-मसहिष्णुः स्वकीयतीव्र -मुमुक्षुत्वं प्रकटीकरोति

दुर्वारेति ।
 

 
दुर्वार-संसार-दवाग्नितप्तं दोधूयमानं दुरदृष्टवातैः ।

भीतं प्रपन्नं परिपाहि मृत्योः शरण्यमन्यंयदहं न जाने
 
॥३८॥
 

 
संसार एव दवाग्निः सर्वंशो व्याप्य -तापहेतुत्वात् वनानलः, सः

भवदीय -सदुपदेशजनितज्ञानं विना न वारयितुं शक्य इति दुर्वार: वारयितुं

स्वयमशक्य इत्यर्थः । दुर्वारश्चासौ संसारदवाग्निः तेन तप्तम् दग्धं,

वनानलस्य वातसहितत्वे हुव्याप्य तापकत्वं प्रसिद्धं । तथा दुरदृष्टवातैः

दुरदृष्टानि पापानि तान्येव वाताः प्रतिकूलवायवः तैः दोधूयमानं मुहुर्मुहुः

कम्प्यमानं, अनुकूलश्चेद्वातः एनमन्यत्र नयेत्, प्रतिकूलस्तु वातः अग्नौ

पातयति अग्नि वा अस्मिन् । एवं दवाग्नि-तप्तस्य अमृतवर्षणे तापमाक्षो

भवतीत्यभिप्रायेण पूर्वं दृष्टे: अतिकारुण्यसुधाभिवृष्ट्येति विशेषणं

दत्तम् ।
तत्र बहुव्रीहि-मकृत्वा दृष्ट्या करणेन अतिकारुण्यसुधाभि-

वृष्ट्या सुधाभिवर्षणेन इत्यपि वक्तुं शक्यते । तेन दवाग्नितप्तं मां

मृत्योः परिपाहीत्यन्वयः । इत्थं च स्वकीय-कटाक्षदृष्ट्या ऋज्व्या

मामुद्धरेति पूर्वमन्वयः । तया अतिकारुण्यसुधाभिवर्षणेन संसारदवाग्नि-

तप्तं मां मृत्योः परिपाहीत्युत्तरत्रान्वयः । मृत्यो-र्भीतं, प्रपन्नं शरणागतं,

मां मृत्योः परिपाही॒हीत्युभयत्रा-न्वयः । भवदनुग्रहादात्मज्ञाने सति मम