This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
भवामीति भावः व्यंजितः । सूर्यमण्डलाद्वा दीपाद्वा किरणा: पुंजीभृय
रज्जुवद्यथा निष्कामन्ति तथा चक्षुषोपि तेजस्त्वात् निष्क्रान्ता रश्मयः
एतस्मिन् संक्रान्ताः ब्रह्मनिष्ठ-मनस्संयुक्तत्वादेन- मुद्धरंतीति भावः । अति-
कारुण्यसुधाभिवृष्ट्या अत्यंतं कारुण्यं अतिकारुण्यं तदेव सुधा, सकलताप-
हारकत्वात् सुधेति रूप्यते । सुधा नामामृतं, तस्याः अभितो वृष्टिः
यस्यां दृष्ट्यां सा अतिकारुण्यसुधाभिवृष्टिः तया अतिकारुण्य-सुधाभि-
वृष्ट्या । अमृताभिवर्षणेन पुरुष: जरामरणादि-वर्जितो भवतीति प्रसिद्धं ।
युद्धे मृता वानरा इन्द्रकारितामृत-वर्षणेन उज्जीविता इति रामायणे
प्रसिद्धम् । तादृशामृतस्यैव तथात्वे ब्रह्मनिष्ठानुकम्पा-मृतवर्षणदृष्टि:
असंकुचित-जरामरणादि-वर्जितत्वं दास्यतीति भावः ॥३७॥
 
२६
 
स्वोद्धरणे विलम्ब-मसहिष्णुः स्वकीयतीव्र मुमुक्षुत्वं प्रकटीकरोति
दुर्वारेति ।
 
दुर्वार-संसार-दवाग्नितप्तं दोधूयमानं दुरदृष्टवातैः ।
भीतं प्रपन्नं परिपाहि मृत्योः शरण्यमन्यंयदहं न जाने ।
 
॥३८॥
 
संसार एव दवाग्निः सर्वंशो व्याप्य तापहेतुत्वात् वनानलः सः
भवदीय सदुपदेशजनितज्ञानं विना न वारयितुं शक्य इति दुर्वार: वारयितुं
स्वयमशक्य इत्यर्थः । दुर्वारश्चासौ संसारदवाग्निः तेन तप्तम् दग्धं,
वनानलस्य वातसहितत्वे वहुव्याप्य तापकत्वं प्रसिद्धं । तथा दुरदृष्टवातैः
दुरदृष्टानि पापानि तान्येव वाताः प्रतिकूलवायवः तैः दोधूयमानं मुहुर्मुहुः
कम्प्यमानं, अनुकूलश्चेद्वातः एनमन्यत्र नयेत्, प्रतिकूलस्तु वातः अग्नौ
पातयति अग्नि वा अस्मिन् । एवं दवाग्नि-तप्तस्य अमृतवर्षणे तापमाक्षो
भवतीत्यभिप्रायेण पूर्वं दृष्टे: अतिकारुण्यसुधाभिवृष्ट्येति विशेषणं
दत्तम् ।
तत्र बहुव्रीहि-मकृत्वा दृष्ट्या करणेन अतिकारुण्यसुधाभि-
वृष्ट्या सुधाभिवर्षणेन इत्यपि वक्तुं शक्यते । तेन दवाग्नितप्तं मां
मृत्योः परिपाहीत्यन्वयः । इत्थं च स्वकीय-कटाक्षदृष्ट्या ऋज्व्या
मामुद्धरेति पूर्वमन्वयः । तया अतिकारुण्यसुधाभिवर्षणेन संसारदवाग्नि-
तप्तं मां मृत्योः परिपाहीत्युत्तरत्रान्वयः । मृत्योर्भीतं, प्रपन्नं शरणागतं,
मां मृत्योः परिपाही॒त्युभयत्रा-न्वयः । भवदनुग्रहादात्मज्ञाने सति मम