This page has not been fully proofread.

iv
 
अभूवन्नित्येतदेव व्याख्यायाः उत्कर्षबोधनायालम्। व्याख्यायाः
अपरिपूतिः किंचिदिव मनस्तोदमावहति ।
व्याख्यापूरणाय
आचार्यपादान् कदाचिद्वयं प्रार्थयाम । "वक्तव्या अत्रैव संगृहीताः
निदिध्यासनमन्तरा नाधुनान्यत्र चित्तं व्यापृणोति" इति आशय-
माविरकुर्वन् । तनेयमपरिपूर्तिः न न्यूनतामावहतीति अस्माकं
मतिः ।
 
एतद्ग्रन्थमुद्रणविषये विशेषतः दर्शितश्रद्धान् विहित-
सेवांश्च श्री. एस्. वेंकटेश्वरार्यान् (चीफ् कास्ट् अकौन्ट्स्-
आफीसर्, भारताधिशासनम् ) तथा मुद्रणसंशोधनादिषु बद्धा-
दरान् पण्डितराजश्रीरामचन्द्रशास्त्रिणश्च भगवानुमाजानिः
श्रेयांसि वितीर्य परिपालयतु ।
 
ग्रन्थमिमं सम्यगधीत्य आत्मतत्वमधिगत्य सर्वेपि लोकाः
कृतकृत्या भवेयुः इत्याशास्महे ।
 
अभिनवविद्यातीर्थः
शुंगगिरिजगद्गुरु श्री चन्द्रशेखरभारती -
स्वामिनां करकमलसञ्जातः ।