This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
२५
 
नमस्कार - तत्पादसंवहन- तदुक्तकरणादीनि तैस्तमाराध्य संसेव्य, ऋज्व्या
तया सेवया प्रसन्नं स्वाभिमुखं तं अनुप्राप्य यथासमयनिर्देशं तत्सन्निधौ यथा-
विधि स्थित्वा आत्मनः ज्ञातव्यं यज्जिज्ञासितं आत्मयाथात्म्यविषये
तत्पृच्छेत् । भक्त्या प्रह्वः प्रश्रयसेवनैराराध्य इत्यनेन आराधयितु-र्मनसि
वचसि कायेच शुद्धत्वरूप- त्रिकरणशुद्धिरुक्ता ॥ ३६॥
 
भक्तिपुरस्सर - वाचिकाराधन प्रकारं दयया
दयया दर्शयति भगवान्
जिज्ञासुभ्यः । स्वामिन्नमस्ते इत्यादिना तथा वदन्तमित्यन्तम् ।
स्वामिन्नमस्ते नतलोकबन्धो कारुण्यसिन्धो पतितं भवाब्धौ ।
 
मामुद्धरात्मीय-कटाक्षदृष्ट्या
 
ऋज्व्यातिकारुण्य-सुधाभि-
वृष्ट्या ॥३७॥
 
इदानीं
 
नतलोकबन्धो नतानां कृतनतीनां लोकानां जनानां बन्धुः दुःख-
मोचकः तस्य संबुद्धौ नतलोकबन्धो, स्वामिन् प्रभो, ते तुभ्यं नमः, प्रह्वीभावः
अस्त्विति शेषः । यतस्त्त्रं नतलोक-दुःखमोचक : अतस्त्वां दुःखमुक्त्यै
नमामीति भावः । तत्र हेतुमाह कारुण्यसिंधो इति संबोधनेन । विवृतमेतत्
अहेतुक-दयासिंधुरित्यत्र । स्वकीयं दुःखं निवेदयति भवाब्धो पतितं,

जन्मजरारोग-मरणानर्थ-संकुले संसारसमुद्रे पतितमित्यर्थः ।
तन्निवृत्तिं प्रार्थयते मामुद्धरेति । जन्मादि-बन्धनिर्मुक्तं कुवित्यर्थः । तत्र
साधनं याचते आत्मीयकटाक्षदृष्ट्येति । स्वकीयलोचन-प्रान्तेनेत्यर्थः ।
ब्रह्मसाक्षात्कार-निर्धूत- सकल-मलस्य भवतः पवित्र कटाक्षपाते सकलपाप-
निर्मुक्तोहं संसार-सागरं तरामीति भावः । उक्तं हि " यस्यानुभवपर्यन्ता
बुद्धिःसत्वे प्रवर्तते । तद्दृष्टि-गोचरास्सवें मुच्यन्ते सर्वकिल्वषै: '
इति । एतेन शिष्येण गुरोस्साक्षात्पुरः न स्थेयमिति विनयप्रकारो दर्शितो
भवति । किंच सम्पूर्णावलोकनं कटाक्षपात एव अतस्तत् कामयेइत्यपि
भावः । नित्यशुद्ध-ब्रह्मानन्द - मग्नस्य मनसः चक्षुः प्रान्तद्वारा पूर्णतया मयि
पाते सर्वथापि पूतः दुःखविमुक्तो भवेयमहम् इति भावः । यद्वा आत्मीय
कटाक्षदृष्ट्या स्वकीय-सानुग्रहह्वीक्षणेनेत्यर्थः । ऋज्व्या स्वभावसरलया,
तद्विशेषणेन यथा लोके अगाधजलपतितः ऋज्वीं रज्जुं यष्टि वा अवलम्ब्य
उद्धृतो भवति तथाहं भवत्कटाक्षं - दीर्घदीर्घमवलम्ब्य संसाराब्धे-रुध्दृतो
 
"