This page has been fully proofread once and needs a second look.

२४
 
श्रीविवेकचूडामणिः सव्याख्यः
 
केन प्रयुक्तोयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव

नियोजितः" इत्यर्जुनेन पृष्टो भगवानाह " काम एषक्रोध एष रजो-

गुणसमुद्भवः। महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्" इत्यादि ।

ब्रह्मण्युपरतः ब्रह्मणि विलीनमनस्क: अत एव निरिन्धन अनल इव

शान्तः, यथा इन्धनाभावे अग्नि: शान्तः ज्वालाशून्यः भाति तथा

अनालम्बितबाह्मवृत्तित्वात् शान्तः निर्गुणे ब्रह्मणि परिनिष्ठित -चित्तत्वात्

शान्तः निर्विकार इत्यर्थः । अत्र श्रोत्रियत्वादीनां विशेषणानां व्यावर्तकत्वं

नास्ति, ब्रह्मवित्तमे अश्रोत्रियत्वस्य पापस्य कामहतत्वस्य च असंभावित-

त्वात्, किंतु वस्तुसत्तया तेषां तादृशगुरुज्ञापकत्वम् संभवतीति स्वरूपलक्षण

त्वमेव मन्तव्यम् ।
 

 
अहेतुक-दयासिंधु-र्बन्धु रानमतां सताम् ॥३५॥
 

 
नविद्यते हेतुर्यस्याः सा अहेतुकी तादृशी या दया परदुःखप्रहाणेच्छा

तस्याः सिंधुः आश्रय इत्यर्थः । इतरस्य दयालोरपि दया अन्यत्र दुःख-

दर्शनेन स्वस्यापि जातदुःखत्वात् । तन्निरासार्थं अहेतुकेति । अस्य तु

ज्ञानमहिम्ना स्वतो वा परतो वा दुःखाप्रसक्तेः केवलं जनास्तरन्तु संसार-
वा

वार्
धिमिति इच्छा परं व्युत्थानकाले इति भावः । न्धुः दुःखहारक इत्यर्थः।

केषां ? आनमतां सतां प्रीरह्वीभवतां सत्पुरुषाणामित्यनेन शिष्यस्य लक्षणं

परिज्ञायैव ते उपदिशन्तीति सूचितम् । श्रूयते किल तत्र " नासूयकाया-

नृजवे शठाय '" "इदमशिष्याय नो देयम्" इत्यादि । स्मर्यते च गीतायां
 
(6
 
((
 

इदं ते नातपस्काय नाभक्ताय कदाचन । नचाशुश्रूषवे वाच्यं न च मां

योभ्यसूयति "। इदमुपसदनं समीपगमनम् ।
 

 
तदनन्तरकर्तव्यं करुणया शिष्यायोपदिशति भगवान्भाष्यकार: ।
 

तमिति ।
 
" ((
 

 
तमाराध्य गुरुं भक्त्या प्रह्वः प्रश्रयसेवनैः ।

प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः ॥३६॥
 

 
भक्तिः पूज्येष्वनुरागः मानसधर्मः, तया प्रह्वः तद्व्यंजकाकार-

विशिष्ट : नम्रकायः द्धांजलिपुट:, प्रश्रयसेवनैः प्रश्रयश्च सेवनानि च

प्रश्रयसेवनानि तैरित्यर्थः । तत्र प्रश्रयः विनीतवाक्त्वं सेवनानि साष्टांग-