2023-02-20 14:42:34 by ambuda-bot
This page has not been fully proofread.
२४
श्रीविवेकचूडामणिः सव्याख्यः
केन प्रयुक्तोयं पापं चरति पूरुषः । अनिच्छन्नपि वार्ष्णेय बलादिव
नियोजितः" इत्यर्जुनेन पृष्टो भगवानाह " काम एषक्रोध एष रजो-
गुणसमुद्भवः। महाशनो महापाप्मा विद्ध्येनमिह वैरिणम्" इत्यादि ।
ब्रह्मण्युपरतः ब्रह्मणि विलीनमनस्क: अत एव निरिन्धन अनल इव
शान्तः, यथा इन्धनाभावे अग्नि: शान्तः ज्वालाशून्यः भाति तथा
अनालम्बितबाह्मवृत्तित्वात् शान्तः निर्गुणे ब्रह्मणि परिनिष्ठित चित्तत्वात्
शान्तः निर्विकार इत्यर्थः । अत्र श्रोत्रियत्वादीनां विशेषणानां व्यावर्तकत्वं
नास्ति, ब्रह्मवित्तमे अश्रोत्रियत्वस्य पापस्य कामहतत्वस्य च असंभावित-
त्वात्, किंतु वस्तुसत्तया तेषां तादृशगुरुज्ञापकत्वम् संभवतीति स्वरूपलक्षण
त्वमेव मन्तव्यम् ।
अहेतुक-दयासिंधु-बन्धु रानमतां सताम् ॥३५॥
नविद्यते हेतुर्यस्याः सा अहेतुकी तादृशी या दया परदुःखप्रहाणेच्छा
तस्याः सिंधुः आश्रय इत्यर्थः । इतरस्य दयालोरपि दया अन्यत्र दुःख-
दर्शनेन स्वस्यापि जातदुःखत्वात् । तन्निरासार्थं अहेतुकेति । अस्य तु
ज्ञानमहिम्ना स्वतो वा परतो वा दुःखाप्रसक्तेः केवलं जनास्तरन्तु संसार-
वाधिमिति इच्छा परं व्युत्थानकाले इति भावः । वन्धुः दुःखहारक इत्यर्थः।
केषां ? आनमतां सतां प्रीभवतां सत्पुरुषाणामित्यनेन शिष्यस्य लक्षणं
परिज्ञायैव ते उपदिशन्तीति सूचितम् । श्रूयते किल तत्र " नासूयकाया-
नृजवे शठाय 'इदमशिष्याय नो देयम्" इत्यादि । स्मर्यते च गीतायां
(6
((
इदं ते नातपस्काय नाभक्ताय कदाचन । नचाशुश्रूषवे वाच्यं न च मां
योभ्यसूयति "। इदमुपसदनं समीपगमनम् ।
तदनन्तरकर्तव्यं करुणया शिष्यायोपदिशति भगवान्भाष्यकार: ।
तमिति ।
" ((
तमाराध्य गुरुं भक्त्या प्रह्वः प्रश्रयसेवनैः ।
प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः ॥३६॥
भक्तिः पूज्येष्वनुरागः मानसधर्मः, तया प्रह्वः तद्व्यंजकाकार-
विशिष्ट : नम्रकायः वद्धांजलिपुट: प्रश्रयसेवनैः प्रश्रयश्च सेवनानि च
प्रश्रयसेवनानि तैरित्यर्थः । तत्र प्रश्रयः विनीतवाक्त्वं सेवनानि साष्टांग-