This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
पूर्वोक्त-साधनसंपन्नस्य कृत्यमाह । उक्तेति ।
उक्तसाधनसंपन्नः तत्वजिज्ञासुरात्मनः ।
उपसीदेद्गुरुं प्राज्ञं यस्माद्बन्धविमोक्षणम् ॥३३३ ॥
 
उक्तसाधनसंपन्नः उक्तानि विचारसाधनत्वेन कथितानि यानि
विवेकादीनि साधनानि तैः संपन्न: युक्तः पुमानिति शेषः । आत्मनः
स्वस्य तत्वं ज्ञातुमिच्छुः स्वयाथात्म्यज्ञानकामः उपसीदेत् शरणं गच्छेत्, कं ?
गुरुमुपदेशकम् । कीदृशम् ? प्राज्ञं, प्रकृष्टा निरतिशया ज्ञा अवगतिः
ब्रह्मसाक्षात्कारः
"ब्रह्मात्मनोश्शोधितयो- रेकभावावगाहिनी ।
 
२३
 
प्रज्ञा
 
निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते " इति वक्ष्यमाणत्वात् ।
सास्यास्तीति प्रज्ञः स एव प्राज्ञः तं ब्रह्मनिष्ठ मित्यर्थः । तेन स्वस्य
फलमाह। यस्माद्यादृशगुरोः सकाशात्, बन्धविमोक्षणं बन्धस्य अज्ञान-
कल्पितस्य अहंकारादिदेहान्तस्य विमोक्षणं विशेषेण परित्यागः इति ।
तादृशगुरूपसदने तदुपदेशजन्य-स्वयाथात्म्यज्ञानेन बन्धनिवृत्तिरूपमोक्ष-
स्सिध्यति इति भावः ॥ ३४॥
 
तादृशं गुरुं लक्षयति श्रोत्रिय इत्यादिना ।
 
इति
 
श्रोत्रियोऽवृजिनो-कामहतो यो ब्रह्मविदुत्तमः ।
ब्रह्मण्युपरतरशान्तो निरिन्धन इवानलः ॥ ३४३ ॥
"श्रोत्रियश्छन्दोधीत " इति पाणिनिनाअनुशिष्टत्वात् अधीतोप-
निषत्क इत्यर्थः । उपनिषदमधीत्य कृततदर्थ-विचारस्यैव साक्षात्कार
हेतुत्वात् । अवृजिनः निष्पाप इत्यर्थ: "नाविरतो दुश्चरितात् नाशान्तो
नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैन-माप्नुयात् "
श्रुतेः । तत्र कारणमाह अकामहत इति । कामेन विषयाशया हतः
कामहतः अभासितस्वस्वरूप इत्यर्थः । न कामहतः अकामह्तः यस्तावत्स्व -
रूपं आनन्दं न जानाति स एव बहिरानन्दोस्तीति तं प्राप्तुं कदाचित्पापमपि
कुर्यात् । अस्य तावत् ब्रह्मवित्तमस्य साक्षात्क्रियमाण-स्वरूपानन्दत्वात्
"विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोप्यस्य परं दृष्ट्वा
निवर्तते " इति गीतोक्तरीत्या निवृत्तरागत्वरूपाकामहतत्वं सिध्यत्येवेति
निष्पापत्वं तस्मिन् । कामस्यैव पापहेतुत्वात् । तदुक्तम् गीतासु "अथ
 
"