This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
इति श्रुत्वा गुरोर्वाक्यं प्रश्रयेण कृतानतिः ।
 
स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः ॥ ५७७ ॥
गुरुरेष सदानन्दसिन्धौ निर्मग्नमानसः ।
पावयन्वसुधां सर्वां विचचार निरन्तरः ॥ ५७८ ॥
इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् ।
निरूपितं मुमुक्षूणां सुखबोधोपपत्तये ॥ ५७९ ॥
हितमिदमुपदेशमाद्रियन्तां
विहितनिरस्तसमस्तचित्तदोषाः ।
भवसुखविमुखाः प्रशान्तचित्ताः
 
श्रुतिरसिका यतयो मुमुक्षवो ये ॥ ५८० ॥
 
संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा-
खिन्नानां जलकाङङ्क्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् ।
अत्यासन्नसुधाम्बुधिं सुखकरं ब्रह्मद्वयं दर्शय-
न्त्येषा शंकरभारती विजयते निर्वाणसंदायिनी ॥ ५८१ ॥
 
२६७
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतःकृतौ विवेकचूडामणिः
 
शृंगगिरिजगद्गुरु श्री चन्द्रशेखरभारतीस्वाम्यनुगृहितव्याख्यासनाथ:
 
समाप्तः ॥