This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् ।

ब्रह्मभावं प्रपद्यैष यतिर्नावर्तते पुनः ॥ ५६८ ॥
 

 

 
सदात्मैकत्वविज्ञानदग्धाविद्यादिवर्ष्मणः
 

अमुष्य ब्रह्मभूतत्वाद्ब्रह्मणः कुत उद्भवः ॥ ५६९ ॥

 
मायाक्लृप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः ।

यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ ॥ ५७० ॥
 

 
आवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे ।

नावृतिर्ब्रह्मणः काचिदन्याभावादनावृतम् ।

यद्यस्त्यद्वैतहानिः स्याद्द्वैतं नो सहते श्रुतिः ॥ ५७१ ॥
 

 
बन्धश्च मोक्षश्च मृषैव मूढा

बुद्धेर्गुणं वस्तुनि कल्पयन्ति ।

दृगावृतितिं मेघकृतां यथा रवौ

यतोऽद्वयासङ्गचिदेकमक्षरम् ॥ ५७२ ॥
 

 
अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि ।

बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः ॥ ५७३ ॥

 
अतस्तौ मायया क्लृप्तौ बन्धमोक्षौ न चात्मनि ।

निष्कले निष्क्रिये शान्ते निरवद्ये निरंजने ।

अद्वितीये परेतत्त्वे व्योमवत्कल्पना कुतः ॥ ५७४ ॥

 
न निरोधो न चोत्पत्ति र्न बद्धो न च साधकः ।

न मुमुक्षु र्नवै मुक्तः इत्येषा परमार्थता ॥ ५७५ ॥

 
to
 

 
सकलनिगमचूडास्वान्तसिद्धान्तगुह्यं

परमिदमतिगुह्यं दर्शितं ते मयाद्य ।

अपगतकलिदोषः कामनिर्मुक्तबुद्धि-

स्तदतुलमसकृत्त्वं भावयेदं मुमुक्षुः ॥ ५७६ ॥