This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
एवं विदेहकैवल्यं सन्मात्रत्वमखण्डितम् ।
ब्रह्मभावं प्रपद्यैष यतिनवर्तते पुनः ॥ ५६८ ॥
 

 
सदात्मकत्वविज्ञानदग्धाविद्यादिवर्ष्मणः
 
अमुष्य ब्रह्मभूतत्वाद्ब्रह्मणः कुत उद्भवः ॥ ५६९ ॥
मायाक्लृप्तौ बन्धमोक्षौ न स्तः स्वात्मनि वस्तुतः ।
यथा रज्जौ निष्क्रियायां सर्पाभासविनिर्गमौ ॥ ५७० ॥
 
आवृतेः सदसत्त्वाभ्यां वक्तव्ये बन्धमोक्षणे ।
नावृतिर्ब्रह्मणः काचिदन्याभावादनावृतम् ।
यद्यस्त्यद्वैतहानिः स्याद्वैतं नो सहते श्रुतिः ॥ ५७१ ॥
 
बन्धश्च मोक्षश्च मृषैव मूढा
बुद्धेर्गुणं वस्तुनि कल्पयन्ति ।
दृगावृति मेघकृतां यथा रवौ
यतोऽवयासङ्गचिदेकमक्षरम् ॥ ५७२ ॥
 
अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि ।
बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः ॥ ५७३ ॥
अतस्तौ मायया क्लृप्तौ बन्धमोक्षौ न चात्मनि ।
निष्कले निष्क्रिये शान्ते निरवद्ये निरंजने ।
अद्वितीये परेतत्त्वे व्योमवत्कल्पना कुतः ॥ ५७४ ॥
न निरोधो न चोत्पत्ति र्न बद्धो न च साधकः ।
न मुमुक्षु र्नवै मुक्तः इत्येषा परमार्थता ॥ ५७५ ॥

 
to
 
सकलनिगमचूडास्वान्तसिद्धान्तगुह्यं
परमिदमतिगुह्यं दर्शितं ते मयाद्य ।
अपगतकलिदोषः कामनिर्मुक्तबुद्धि-
स्तदतुलमसकृत्त्वं भावयेदं मुमुक्षुः ॥ ५७६ ॥