This page has been fully proofread once and needs a second look.

3
 
श्रीविवेकचूडामणिः सव्याख्यः
 
देहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलो: ।

अविद्याहृदयग्रन्थिमोक्षो मोक्षो यतस्ततः । ५५९ ॥
 

 
कुल्यायामथ नद्यां वा शिवक्षेत्रेऽपि चत्वरे ।

पर्णं पतति चेत्तेन तरोः किं नु शुभाशुभम् ॥ ५६० ॥
 

 
पत्रस्य पुष्पस्य फलस्य नाशव-
छे

द्दे
हेन्द्रियप्राणधियां विनाशः ।

नैवात्मनः स्वस्य सदात्मकस्या-

नन्दाकृते वृक्षवदास्त एषः ॥ ५६१ ॥
 

 
प्रज्ञानघनइत्यात्मलक्षणं सत्यसूचकम् ।

अनूद्यौपाधिकस्यैव कथयन्ति विनाशनम् ॥ ५६२॥
 

 
अविनाशी वा अरेयमात्मेति श्रुतिरात्मनः ।

प्रब्रवीत्यविनाशित्वं विनश्यत्सु विकारिषु ॥ ५६३॥
 

 
पाषाणवृक्षतृणधान्यकटाम्बराद्या

दग्धा भवन्ति हि मृदेव यथा तथैव ।

देहेन्द्रियासुमनआदिसमस्तदृश्यं

ज्ञानाग्निदग्धमुपयाति परात्मभावम् ॥ ५६४ ॥
 

 
विलक्षणं यथा ध्वान्तं लीयते भानुतेजसि ।

तथैव सकलं दृश्यं ब्रह्मणि प्रविलीयते ॥ ५६५ ॥
 
घं

 
टे नष्टे यथा व्योम व्योमैव भवति स्फुटम् ।

तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम् ॥ ५६६ ॥
 

 
क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलं जले ।

संयुक्तमेकतां याति तथात्मन्यात्मविन्मुनिः ॥ ५६७॥
 
२६५