This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
अहिनिर्ल्वयनीवाऽयं मुक्तदेहस्तु तिष्ठति ।

इतस्तत श्चाल्यमानो यत्किकिंचित्प्राणवायुना ॥ ५५० ॥
 

 
स्त्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् ।

देवेन नीयते देहो यथाकालोपभुक्तिषु ॥ ५५१ ॥
 
२६४
 

 
प्रारब्धकर्मपरिकल्पितवासनाभिः

संसारिवच्चरति भुक्तिषु मुक्तदेहः ।

सिद्धः स्वयं वसति साक्षिवदत्र तूष्णीं

चक्रस्य मूलमिव कल्पविकल्पशून्यः ॥ ५५२ ॥
 

 
नैवेन्द्रियाणि विषयेषु नियुक्त एष

नैवापयुङ्क्त उपदर्शनलक्षणस्थः ।

नैव क्रियाफलमपीषदपेक्षते सः

स्वानन्दसान्द्ररसपानसुमत्तचित्तः ॥ ५५३ ॥
 

 
लक्ष्यालक्ष्यगतितिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना ।

शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ॥ ५५४ ॥
 

 
जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः ।

उपाधिनाशाद्ब्रह्मैव सद्ब्रह्माप्येति निर्द्वयम् ॥ ५५५ ॥
 

 
शैलूषो वेषसद्भावाभावयोश्च यथा पुमान् ।

तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः ॥ ५५६॥
 

 
यत्र क्वापि विशीर्णं पर्णमिव तरोर्वपुः पतनात् ।

ब्रह्मीभूतस्य यतेः प्रागेव हि तच्चिदग्निना दग्धम् ॥ ५५७ ॥
 

 
सदात्मनि ब्रह्मणि तिष्ठतो मुनेः
 

पूर्णाद्वयानन्दमयात्मना सदा ।

न देशकालाद्युचितप्रतीक्षा

त्वङ्मांसविट्पिण्डविसर्जनाय ॥ ५५८ ॥