This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
अहिनियनीवाऽयं मुक्तदेहस्तु तिष्ठति ।
इतस्तत श्चाल्यमानो यत्किचित्प्राणवायुना ॥ ५५० ॥
 
स्त्रोतसा नीयते दारु यथा निम्नोन्नतस्थलम् ।
देवेन नीयते देहो यथाकालोपभुक्तिषु ॥ ५५१ ॥
 
२६४
 
प्रारब्धकर्मपरिकल्पितवासनाभिः
संसारिवच्चरति भुक्तिषु मुक्तदेहः ।
सिद्धः स्वयं वसति साक्षिवदत्र तूष्णीं
चक्रस्य मूलमिव कल्पविकल्पशून्यः ॥ ५५२ ॥
 
नैवेन्द्रियाणि विषयेषु नियुक्त एष
नैवापयुक्त उपदर्शनलक्षणस्थः ।
नैव क्रियाफलमपीषदपेक्षते सः
स्वानन्दसान्द्ररसपानसुमत्तचित्तः ॥ ५५३ ॥
 
लक्ष्यालक्ष्यगति त्यक्त्वा यस्तिष्ठेत्केवलात्मना ।
शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ॥ ५५४ ॥
 
जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः ।
उपाधिनाशाद्ब्रह्मैव सद्ब्रह्माप्येति निर्द्वयम् ॥ ५५५ ॥
 
शैलूषो वेषसद्भावाभावयोश्च यथा पुमान् ।
तथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः ॥ ५५६॥
 
यत्र क्वापि विशीर्णं पर्णमिव तरोर्वपुः पतनात् ।
ब्रह्मीभूतस्य यतेः प्रागेव हि तच्चिदग्निना दग्धम् ॥ ५५७ ॥
 
सदात्मनि ब्रह्मणि तिष्ठतो मुनेः
 
पूर्णाद्वयानन्दमयात्मना सदा ।
न देशकालाद्युचितप्रतीक्षा
त्वङ्मांसविपिण्डविसर्जनाय ॥ ५५८ ॥