This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम् ।

तद्वद्ब्रह्मविदोऽप्यस्य ब्रह्माहमिति वेदनम् ॥ ५३३॥
 
२६२
 

 
भानुनेव जगत्सर्वं भासते यस्य तेजसा ।

अनात्मकमसत्तुच्छं किं नु तस्यावभासकम् ॥ ५३४॥
 

 
वेदशास्त्रपुराणानि भूतानि सकलान्यपि ।

येनार्थवन्ति तं किं नु विज्ञातारं प्रकाशयेत् ॥ ५३५ ॥
 

 
एष स्वयं ज्योतिरनंतशक्ति-

रात्माप्रमेयः सकलानुभूतिः ।
 

यमेव विज्ञाय विमुक्तबन्धः
 

जयत्ययं ब्रह्मविदुत्तमोत्तमः ॥ ५३६ ॥
 
1
 

 
न खिद्यते नो विषयैः प्रमोदते

न सज्जते नापि विरज्यते च ।

स्वस्मिन्सदा क्रीडति नन्दति स्वयं

निरन्तरानन्दरसेन तृप्तः ॥ ५३७॥
 

 
क्षुधां देहव्यथां त्यक्त्वा बाल: क्रीडति वस्तुनि ।

तथैव विद्वान्रमते निर्ममो निरहं सुखी ॥ ५३८ ॥
 

 
चिन्ताशून्यमदैन्यभैक्षमशनं पानं सरिद्वारिषु
 

स्वातन्त्र्येण निरङ्कुशा स्थितिरभीर्निद्रा श्मशाने वने ।
'

वस्त्रं क्षालनशोषणादिरहितं दिग्वास्तु शय्यामही

संचारो निगमान्तवीथिषु विदां क्रीडा परेब्रह्मणि ॥ ५३९ ॥
 

 
विमानमालम्ब्य शरीरमेतत्

भुनक्त्यशेषान्विषयानुपस्थितान् ।

परेच्छया बालवदात्मवेत्ता

योऽव्यक्तलिङ्गोऽननुषक्तबाह्यः
 
॥ ५४० ॥