This page has been fully proofread once and needs a second look.

स्वमेव सर्वतः पश्रीविवेकचूडामणिः सव्याख्यः
 
स्वमेव सर्वतः पश्
यन्मन्यमानः स्वमद्वयम् ।
 

स्वानन्दमनुभुंजानः कालं नय महामते ॥ ५२५ ॥
 

 
अखण्डबोधात्मनि निर्विकल्पे
 

विकल्पनं व्योम्नि पुरः प्रकल्पनम् ।
 

तदद्वयानन्दमयात्मना सदा
 

शान्तितिं परामेत्य भजस्व मौनम् ॥ ५२६ ॥
 

 
तूष्णीमवस्था परमोपशान्ति-

र्बुद्धेरसत्कल्पविकल्पहेतोः ।

ब्रह्मात्मना ब्रह्मविदो महात्मनो

यत्राद्वयानन्दसुखं निरन्तरम् ॥ ५२७ ॥
 

 
नास्ति निर्वासनान्मौनात्परं सुखकृदुत्तमम् ।

विज्ञातात्मस्वरूपस्य स्वानन्दरसपायिनः ॥ ५२८ ॥
 

 
गच्छंस्तिष्ठन्नुपविशन् शयानो वान्यथापि वा ।

यथेच्छया वसेद्विद्वानात्मारामः सदा मुनिः ॥ ५२९ ॥
 

 
न देशकालासनदिग्यमादि-

लक्ष्याद्यपेक्षा प्रतिबद्धवृत्तेः ।

संसिद्धतत्त्वस्य महात्मनोऽस्ति
 

स्ववेदने का नियमाद्यवस्था ॥ ५३० ॥
 

 
घटोsयमिति विज्ञातुं नियमः कोन्वपेक्ष्यते ।

विना प्रमाणसुष्ठुत्वं यस्मिन्सति पदार्थधीः ॥ ५३१ ॥
 

 
अयमात्मा नित्यसिद्धः प्रमाणे सति भासते ।

न देशं नापि वा कालं न शुद्धिधिं वाप्यपेक्षते ॥ ५३२ ॥
 
२६१