This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
स्वाराज्य-साम्राज्य-विभूतिरेषा भवत्कृपा - श्रीमहितप्रसादात् ।

प्राप्ता मया श्रीगुरवे महात्मने नमो नमस्तेस्तु पुनर्नमोस्तु ॥ ५१८ ॥
 

 
महास्वप्ने मायाकृतजनिजरामृत्युगहने

भ्रमन्तं क्लिश्यन्तं बहुलतरतापैरनुकलम् ।

अहंकारव्याघ्रव्यथितमिममत्यन्तकृपया

प्रबोध्य प्रस्वापात्परमवितवान्मामसि गुरो ॥ ५१९ ॥
 
२६०
 

 
नमस्तस्मै सदेकस्मै नमश्चिन्महसे मुहुः ।

यदेतद्विश्वरूपेण राजते गुरुराज ते ॥ ५२० ॥
॥ ॥
 

 
इति नतमवलोक्य शिष्यवर्यं

समधिगतात्मसुखं प्रबुद्धतत्त्वम् ।

प्रमुदितहृदयः स देशिकेन्द्रः
 

पुनरिदमाह वचः परं महात्मा ॥ ५२१ ॥
 

 
ब्रह्मप्रत्ययसंतति र्जगदतो ब्रह्मैव सत्सर्वतः

पश्याध्यात्मदृशा प्रशान्तमनसा सर्वास्ववस्थास्वपि ।

रूपादन्यदवेक्षितुं किमभितश्चक्षुष्मतां विद्यते

तद्वद्ब्रह्मविदः सतः किमपरं बुद्धेर्विहारास्पदम् ॥ ५२२ ॥
 

 
कस्तां परानन्दरसानुभूति-

मुत्सृज्य शून्येषु रमेत विद्वान् ।

चन्द्रे महाह्लादिनि दीप्यमाने

चित्रेन्दुमालोकयितुं क इच्छेत् ॥ ५२३॥
 

 
असत्पदार्थानुभवे न किंचि-

नह्यस्ति तृप्तिर्नच दुःखहानिः ।

तदद्वयानन्दरसानुभूत्या
 

तृप्तः सुखं तिष्ठ सदात्मनिष्ठया ॥ ५२४ ॥