2023-03-03 15:07:29 by Vasant
This page has been fully proofread once and needs a second look.
तैः किं मेऽसंगचितेः न ह्यंबुदडंबरोऽम्बरं स्पृशति ॥ ५१२ ॥
सर्वस्य प्रपंचस्य मूलप्रकृतेः सकाशात् साक्षात्परंपरया जातत्वात्
मूलप्रकृतेः मायायाः विकारा: दशधा शतधा सहस्रधा वापि सन्तु। असंग-
चितेः मे तैः विकारैः किं स्यात् । तत्र दृष्टान्तः अम्बुदडम्बरः मेघगर्जनादिकं
अम्बरं गगनं न हि स्पृशति । सदा निर्विकारे गगने मेघोदय-गर्जन-विनाशा-
दिना न कोपि विशेषः इति ॥ ५१२ ॥
श्रीगुरूपदेशानुसारेण जातं अद्वैतानुभवं विशदयति ।
२५९
अव्यक्तादि स्थूलपर्यन्तमेतद् विश्वं यत्राभासमात्रं प्रतीतम् ।
व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥५१३॥
स्पष्टम् ॥
सर्वाधारं सर्ववस्तुप्रकाशं सर्वाकारं सर्वगं सर्वशून्यम् ।
नित्यं शुद्धं निष्कलं निर्विकल्पं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१४॥
यत्प्रत्यस्ता ( यस्मिन्नस्ता) शेषमाया विशेष
प्रत्यग्रूपं प्रत्ययागम्यमानं ।
सत्यज्ञानानन्त-मानन्दरूपं
ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१५॥
तस्य भासा सर्वमिदं विभातीतिश्रुतेः सर्वेषां वस्तूनां प्रकाशो यस्मात्
तत्सर्ववस्तुप्रकाशं " इदं सर्वं यदयमात्मेतिश्रुतेः सर्वाकारं सर्वगं
अपरिच्छिन्नं सर्वशून्यं स्वव्यतिरिक्तस्या-भावात्, ( यस्मिन्निति अभेदे
सप्तमी ) अखण्डाकार
निष्क्रियोस्म्यविकारोस्मि निष्कलोस्मि निराकृतिः ।
निर्विकल्पोस्मि नित्योस्मि निरालंबोस्मि निर्द्वयः ॥५१६॥
सर्वात्मकोहं सर्वोहं सर्वातीतोहमद्वयः ।
केवलाखण्ड-बोधोह-मानन्दोहं निरन्तरम् ॥ ५१७॥
: