This page has been fully proofread once and needs a second look.

२५८
 
श्रीविवेकचूडामणिः सव्याख्यः
 
चलत्युपाधौ प्रतिबिंबलौल्य-

मौपाधिकं मूढधियो नयन्ति ।
स्वबि

स्वबिं
बभूतं रविवद्विनिष्क्रियं
 

कर्तास्मि भोक्तास्मि हतोस्मि हेति ॥ ५०९ ॥
 
48
 
-
 
'

 
"
ध्यायतीव लेलायतीव" इतिश्रुतिः । बुद्धिशरीराद्युपाधि-धर्मान्

भ्रान्त्या मूढधियः विनिष्क्रिये रवौ विबिंबभूते यथा चलति जले, तत्र उपाधौ

भासमानरविप्रतिबिंबे प्रतीयमानं चलनं नयन्ति कल्पयन्ति रविश्चलतीति

तथा उपाधौ बुध्यादौ चलति औपाधिकं तन्निमित्तं तत्र प्रतिबिंबभूत-

जीवलौल्यं विनिष्क्रियं स्वविवबिंबभूतं आत्मानं कर्तास्मि भोक्तास्मीति बुद्धि-

तादात्म्याध्यासात् हतोस्मीति स्थूलदेहतादात्म्याध्यासात् नयन्ति । प्रति-

बिंबेपि उपाधिधर्माः भ्रान्तिसिद्धाः बिबिंबे सुतरां न सन्ति । तथापि मूढधिय:

नयन्ति। अतः श्रुत्या यक्त्या अनुभवेन च सिद्धनिर्गुणत्वस्य न कोपि विरोधः
 

॥५०९॥
 

 
घटाकाशदृष्टान्तेन स्थूलदेहधर्माः नात्मन इत्याह । जल इति ।

 
जले वापि स्थले वापि लुठत्वेष जडात्मकः ।

नाहं विलिप्ये तद्धःधर्मैः घटधर्मैर्नभो यथा ॥ ५१०॥
 

 
जडात्मकः एष देहः जले वापि स्थले वापि लुठतु । नभ: आकाश:

यथा घटधर्में:मैः अनित्यत्वादिभिः पृथु -बुध्नोदराद्याकारैः नीलादिरूपैश्च

न लिप्यते तथा तद्धर्में:मैः स्थूलदेहधर्मे:मैः जलस्थलादि-संबंन्ध-प्रयुक्त-शैत्याभि-

घातादिभिः नाहं विलिप्ये जरामरणादिभिश्च ॥५१०॥
 

 
कर्तृत्व-भोक्तृत्व-खलत्व-

मत्तता - -जडत्व-बद्धत्वविमुक्ततादयः ।

बुद्धेर्विकल्पा न तु सन्ति वस्तुतः
 

स्वस्मिन्परे ब्रह्मणि केवलेऽद्वये ॥ ५११॥
 

 
केवलेद्वये परे ब्रह्मणि स्वस्मिन् कर्तृत्वादि-विमुक्ततान्ताः बुध्यध्यास-

निबन्धनाः विविधकल्पना: वस्तुतो न सन्ति ॥५११॥