2023-02-20 14:43:15 by ambuda-bot
This page has not been fully proofread.
२५८
श्रीविवेकचूडामणिः सव्याख्यः
चलत्युपाधौ प्रतिबिंबलौल्य-
मौपाधिकं मूढधियो नयन्ति ।
स्वबिबभूतं रविवद्विनिष्क्रियं
कर्तास्मि भोक्तास्मि हतोस्मि हेति ॥ ५०९ ॥
48
-
'ध्यायतीव लेलायतीव" इतिश्रुतिः । बुद्धिशरीराद्युपाधि-धर्मान्
भ्रान्त्या मूढधियः विनिष्क्रिये रवौ विबभूते यथा चलति जले, तत्र उपाधौ
भासमानरविप्रतिबिंबे प्रतीयमानं चलनं नयन्ति कल्पयन्ति रविश्चलतीति
तथा उपाधौ बुध्यादौ चलति औपाधिकं तन्निमित्तं तत्र प्रतिबिंबभूत-
जीवलौल्यं विनिष्क्रियं स्वविवभूतं आत्मानं कर्तास्मि भोक्तास्मीति बुद्धि-
तादात्म्याध्यासात् हतोस्मीति स्थूलदेहतादात्म्याध्यासात् नयन्ति । प्रति-
बिंबेपि उपाधिधर्माः भ्रान्तिसिद्धाः बिबे सुतरां न सन्ति । तथापि मूढधिय:
नयन्ति। अतः श्रुत्या यक्त्या अनुभवेन च सिद्धनिर्गुणत्वस्य न कोपि विरोधः
॥५०९॥
घटाकाशदृष्टान्तेन स्थूलदेहधर्माः नात्मन इत्याह । जल इति ।
जले वापि स्थले वापि लुठत्वेष जडात्मकः ।
नाहं विलिप्ये तद्धः घटधर्नभो यथा ॥ ५१०॥
जडात्मकः एष देहः जले वापि स्थले वापि लुठतु । नभ: आकाश:
यथा घटधर्में: अनित्यत्वादिभिः पृथु बुध्नोदराद्याकारैः नीलादिरूपैश्च
न लिप्यते तथा तद्धर्में: स्थूलदेहधर्मे: जलस्थलादि-संवन्ध-प्रयुक्त-शैत्याभि-
घातादिभिः नाहं विलिप्ये जरामरणादिभिश्च ॥५१०॥
कर्तृत्व-भोक्तृत्व-खलत्व-
मत्तता - जडत्व-बद्धत्वविमुक्ततादयः ।
बुद्धेविकल्पा न तु सन्ति वस्तुतः
स्वस्मिन्परे ब्रह्मणि केवलेऽद्वये ॥ ५११॥
केवलेद्वये परे ब्रह्मणि स्वस्मिन् कर्तृत्वादि-विमुक्ततान्ताः बुध्यध्यास-
निबन्धनाः विविधकल्पना: वस्तुतो न सन्ति ॥५११॥