This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
यत्र यस्मिन्पुरुषे एतयोः विरक्तत्वमुमुक्षयोः मन्दता तात्कालिकत्वं

मरौ सलिवत्, निदाघसमये मरुभूमौ चण्डकिरणसंपर्के दूरस्थस्य तत्र

जलमस्तीति भ्रान्तिर्भवति न जललाभः तत्र नैव पिपासानिवृत्तिः, प्रत्युत

श्रान्तस्य तत्र जलधिया जलार्थं गमनेन श्रमाधिक्यमेव, तद्वत्तीव्रवैराग्य -

मुमुक्षत्वयो-रभावे मरुसलिलवत् शमादेस्तत्र भानमात्रता न शमादिफलं

तस्य, नापीतरैः शान्त इत्यादिशब्दै - -र्व्यवहियते च इति भावः ॥३१॥
 
२२
 

 
एवं सर्वेषां वेदान्तानां अद्वितीय- ब्रह्मणि प्रत्यगभिन्ने नित्य-

शुद्धबुद्ध -मुक्त -स्वभावे तात्पर्यनिर्णयानुकूल-व्यापाररूप-श्रवणात्मक-ब्रह्म-

विचाराधिकारिणो विशेषणानि विवेकादीनि निरूप्य आत्मसाक्षात्कार-

साक्षात्साधनं भक्तितिं पूर्वोक्तविचारसाध्यामाह। मोक्षेति ।
 

 
मोक्षकारण-सामग्रयां भक्तिरेव गरीयसी ।

स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते ॥ ३२॥

 
स्वस्वरूपानुसंधानमिति निदिध्यासनमुच्यते । तस्यैव साक्षात्कारं

प्रति साक्षात्साधनत्वात् । श्रुत्याचार्योपदेशेन स आत्मा तत्वमसीति

श्रुतः योर्थः
तव स्वरूपं ब्रह्म तदेव त्वमिति, तदनुसंधानं तद्भावनाधारा

विजातीय-प्रत्ययातिरस्कृत-सजातीय-प्रत्यय-प्रवाहरूपा साक्षात्कारे असा-

धारणं कारणमिति भावः । शमादीनां विचारद्वारक-निदिध्यासनद्वारा

कारणत्वं ज्ञाने, अस्य तु साक्षादिति भावः । अत एव मोक्षस्य कारणं

अभिव्यंजकं यज्ज्ञानं तत्सामग्र्यां तत्साधनसमुदायमध्ये भक्तिरेव गरीयसी

साक्षात्कारणत्वादित्युक्तम् । सा च सामग्री विवेकादिनिदिध्या-

सनान्ता ॥ ३२॥
 

 
अपरेषां मतमाह ।
 

 
स्वात्मतत्वानु-संधानं भक्तिरित्यंपरे जगुः ॥३२ १/२
 

 
स्वात्मनः स्वस्य जीवस्य तत्वानुसंधानं । तस्य भावस्तत्त्वम्

तत्पदवाच्यार्थत्वम् परमात्मत्वमित्यर्थः । तस्यानुसंधानं, वास्तविक भेद-

सत्वेपि अभेदेनोपासनं अहं ग्रहोपासनमिति यावत् । तत् भक्तिरिति

अपरे जगुः इति भेदबुद्धिपुरस्सरायाः भ्रन्तिरूपाया अस्याः मुख्यभक्तित्वं

नास्तीति सूचितम् ।