This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
यत्र यस्मिन्पुरुषे एतयोः विरक्तत्वमुमुक्षयोः मन्दता तात्कालिकत्वं
मरौ सलिवत्, निदाघसमये मरुभूमौ चण्डकिरणसंपर्क दूरस्थस्य तत्र
जलमस्तीति भ्रान्तिर्भवति न जललाभः तत्र नैव पिपासानिवृत्तिः, प्रत्युत
श्रान्तस्य तत्र जलधिया जलार्थं गमनेन श्रमाधिक्यमेव, तद्वत्तीव्रवैराग्य -
मुमुक्षत्वयो-रभावे मरुसलिलवत् शमादेस्तत्र भानमात्रता न शमादिफलं
तस्य, नापीतरैः शान्त इत्यादिशब्दै - र्व्यवहियते च इति भावः ॥३१॥
 
२२
 
एवं सर्वेषां वेदान्तानां अद्वितीय- ब्रह्मणि प्रत्यगभिन्ने नित्य-
शुद्धबुद्ध मुक्त स्वभावे तात्पर्यनिर्णयानुकूल-व्यापाररूप-श्रवणात्मक-ब्रह्म-
विचाराधिकारिणो विशेषणानि विवेकादीनि निरूप्य आत्मसाक्षात्कार-
साक्षात्साधनं भक्ति पूर्वोक्तविचारसाध्यामाह। मोक्षेति ।
 
मोक्षकारण-सामग्रयां भक्तिरेव गरीयसी ।
स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते ॥ ३२॥
स्वस्वरूपानुसंधानमिति निदिध्यासनमुच्यते । तस्यैव साक्षात्कारं
प्रति साक्षात्साधनत्वात् । श्रुत्याचार्योपदेशेन स आत्मा तत्वमसीति
श्रुतः योर्थः
स्वरूपं ब्रह्म तदेव त्वमिति, तदनुसंधानं तद्भावनाधारा
विजातीय-प्रत्ययातिरस्कृत-सजातीय-प्रत्यय-प्रवाहरूपा साक्षात्कारे असा-
धारणं कारणमिति भावः । शमादीनां विचारद्वारक-निदिध्यासनद्वारा
कारणत्वं ज्ञाने, अस्य तु साक्षादिति भावः । अत एव मोक्षस्य कारणं
अभिव्यंजकं यज्ज्ञानं तत्सामग्रयां तत्साधनसमुदायमध्ये भक्तिरेव गरीयसी
साक्षात्कारणत्वादित्युक्तम् । सा च सामग्री विवेकादिनिदिध्या-
सनान्ता ॥ ३२॥
 
अपरेषां मतमाह ।
 
स्वात्मतत्वानु-संधानं भक्तिरित्यंपरे जगुः ॥३२३ ॥
 
स्वात्मनः स्वस्य जीवस्य तत्वानुसंधानं । तस्य भावस्तत्त्वम्
तत्पदवाच्यार्थत्वम् परमात्मत्वमित्यर्थः । तस्यानुसंधानं, वास्तविक भेद-
सत्वेपि अभेदेनोपासनं अहं ग्रहोपासनमिति यावत् । तत् भक्तिरिति
अपरे जगुः इति भेदबुद्धिपुरस्सरायाः भ्रन्तिरूपाया अस्याः मुख्यभक्तित्वं
नास्तीति सूचितम् ।