This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
२५७
 
गृहधर्माः गृहप्रकाशकं प्रदीपं यथा न संस्पृशन्ति, एवं साक्ष्यधर्माः

दृश्यबुद्धीन्द्रिय-शरीरधर्मा: विलक्षणं कदाचन दुग्रूपं स्वयंप्रकाशं

अविकारं उदासीनं साक्षिणं न संस्पृशन्ति । देहेन्द्रिय-मनोधर्माः नैवात्मानं

अविकारमुदासीनं स्पृशन्तीति प्रदीपदृष्टान्तेन पुण्यानि पापानीत्यादि-

श्लोकार्थो विवृतः ॥५०६॥
 

 
त्रिभिः दृष्टान्तैः आत्मनोऽसंगतां प्रतिपादयति । वेरिति ।

 
रवेर्यथा कर्मणि साक्षिभावो वहेह्नेर्यथा वाऽयसि दाहकत्वम् ।

रज्जोर्यथाऽऽरोपितवस्तु-संगः तथैव कूटस्थ - -चिदात्मनो मे ॥५०७॥
 

 
कर्मसाक्षी जगच्चक्षुरिति प्रसिध्या सकलप्राणिकर्मसाक्षित्वं तादृश-

कर्मासंगिनो रवेर्यंथा तथा कूटस्थ - चिदात्मनो मे निर्विकारचिद्रूपस्य मम

सकल-कर्मासंगिनः साक्षित्वं । एवं वह्नेर्दाहकत्वं अयोदहतीति यथा

अयसि कल्पितं एवं बुध्यादिगतं कर्तृत्वं मयि । एवं रज्जोः कल्पितसर्प-

दण्डोदधारादि-वस्तुसंग: तादात्म्यरूपः यथा कल्पितः तथा निर्विकार-

चिद्रूपस्य मम कल्पितदेहादि-संबन्धः । वस्तुतः असंगत्वं दृष्टान्तत्रयेपि
 
॥५०७॥
 

 
स्वस्यानुभवान्निर्धर्मकत्वमाह। कर्तेति ।

 
कर्तापि वा कारयितापि नाहं
 

भोक्तापि वा भोजयितापि नाहम् ।

द्रष्टापि वा दर्शयितापि नाहं
 

सोहं स्वयं-ज्योतिरनीदृगात्मा ॥५०८॥

 
"विज्ञानं यज्ञं तनुते, एष ह्येव साधु कर्म कारयति" इतिश्रुत्या

बुध्युपहितस्य मायोपहितस्य च क्रमेण कर्तृत्वं कारयितृत्वं एवं भोक्तृत्वं

भोजयितृत्वं च। द्रष्टृत्वस्यापि दृश्यसापेक्षत्वात् अद्वितीये तदपि कल्पितमेव

वस्तुतो नास्ति । चक्षुरादिप्रेरकत्वमपि व्यवहारावस्थायामेव न वस्तुतः ।

अतः दर्शियितापि नाहं, सोहं अनीदृक् सकलधर्मवर्जितः '"साक्षी चेता

केवलो निर्गुणश्च " इतिश्रुतेः । स्वयंज्योतिः अनन्याधीनस्फुरण: आत्मा

॥५०८॥
 
((
 
"
 
9