This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
२५७
 
गृहधर्माः गृहप्रकाशकं प्रदीपं यथा न संस्पृशन्ति, एवं साक्ष्यधर्माः
दृश्यबुद्धीन्द्रिय-शरीरधर्मा: विलक्षणं कदाचन दुग्रूपं स्वयंप्रकाशं
अविकार उदासीनं साक्षिणं न संस्पृशन्ति । देहेन्द्रिय-मनोधर्माः नैवात्मानं
अविकारमुदासीनं स्पृशन्तीति प्रदीपदृष्टान्तेन पुण्यानि पापानीत्यादि-
श्लोकार्थो विवृतः ॥५०६॥
 
त्रिभिः दृष्टान्तैः आत्मनोऽसंगतां प्रतिपादयति । वेरिति ।
रवेर्यथा कर्मणि साक्षिभावो वहेर्यथा वाऽयसि दाहकत्वम् ।
रज्जोर्यथाऽऽरोपितवस्तु-संगः तथैव कूटस्थ - चिदात्मनो मे ॥५०७॥
 
कर्मसाक्षी जगच्चक्षुरिति प्रसिध्या सकलप्राणिकर्मसाक्षित्वं तादृश-
कर्मासंगिनो रवेर्यंथा तथा कूटस्थ - चिदात्मनो मे निविकारचिद्रूपस्य मम
सकल-कर्मासंगिनः साक्षित्वं । एवं वदहकत्वं अयोदहतीति यथा
अयसि कल्पितं एवं बुध्यादिगतं कर्तृत्वं मयि । एवं रज्जोः कल्पितसर्प-
दण्डोदधारादि-वस्तुसंग: तादात्म्यरूपः यथा कल्पितः तथा निर्विकार-
चिद्रूपस्य मम कल्पितदेहादि-संबन्धः । वस्तुतः असंगत्वं दृष्टान्तत्रयेपि
 
॥५०७॥
 
स्वस्यानुभवान्निर्धर्मकत्वमाह। कर्तेति ।
कर्तापि वा कारयितापि नाहं
 
भोक्तापि वा भोजयितापि नाहम् ।
द्रष्टापि वा दर्शयितापि नाहं
 
सोहं स्वयं-ज्योतिरनीदृगात्मा ॥५०८॥
"विज्ञानं यज्ञं तनुते, एष ह्येव साधु कर्म कारयति" इतिश्रुत्या
बुध्युपहितस्य मायोपहितस्य च क्रमेण कर्तृत्वं कारयितृत्वं एवं भोक्तृत्वं
भोजयितृत्वं च। द्रष्टृत्वस्यापि दृश्यसापेक्षत्वात् अद्वितीये तदपि कल्पितमेव
वस्तुतो नास्ति । चक्षुरादिप्रेरकत्वमपि व्यवहारावस्थायामेव न वस्तुतः ।
अतः दर्शियितापि नाहं, सोहं अनीदृक् सकलधर्मवर्जितः 'साक्षी चेता
केवलो निर्गुणश्च " इतिश्रुतेः । स्वयंज्योतिः अनन्याधीनस्फुरण: आत्मा
॥५०८॥
 
((
 
"
 
9