This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
66
 
श्रुतिसारसमुद्धरणे तोटकाचार्यै: "न हि नित्यमनित्यगुणेन गुणि " इति ।

वियदधिकरणभाष्ये च अनित्यशब्दाश्रयत्वेन गगनस्यानित्यत्वमिति ।

तथाच स्वतो निर्विकारतया मूलाज्ञाननाशेन शरीरेन्द्रिय -चेतोरूपोपाधि-

संबन्धाभावाच्च अखण्ड -सुखानुभूते: अनावृतापरिच्छिन्न-स्वयंप्रकाशा-

नन्दस्वरूपस्य मम कुतः पुण्यानि कुतस्तरां पापानि । तत्र श्रुतितिं प्रमाणयति
'

"
ब्रूते ह्यनन्वागतमित्यपि श्रुतिः " इति । "अनन्वागतं पुण्येन अनन्वागतं

पापेन तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति" इति सुषुप्तिकाले

मूलाज्ञानसत्वेपि तत्कार्याध्यासाभावात् पुण्यपापास्पृष्टत्वं हृदयगत-सकल-

शोकास्पृष्टत्वं च बोधितं । तथा सर्वैरनुभूयते च । संप्रति कारणाज्ञानस्यापि

नाशात् पुण्यपापदुःख - संबन्धः सुतरां नास्तीति को मोहः कः शोकः इति-

श्रुताविव कुतरशब्देन तेषां अभाव: आक्षेपेण बोधितः । यदि पुण्यपाप-

दुःखानां आत्मधर्मत्वं सुषुप्तावपि तदन्वयः स्यात् । तदा स्वरूपसुखानुभव:,

नतु पुण्यफलं परिच्छिन्नं सुखमनुभूयते । तस्य सुखस्य विषयसंबन्धा-

जनितत्वात् । तदा दुःखं तु नैवास्ति "एषोस्य परम आनन्दः" इतिश्रुतेः

अनुभवाच्च। ततः पापानन्वयः । हृदयस्य शोकान् इत्यनेन शोकशब्दित-

दुःखस्य आत्मधर्मंत्वं नास्तीति कथितं भवति । जाग्रत्स्वप्नयोरध्यासात्

ते कल्प्यन्ते स्म, इदानीं तदभावात् कल्पना नास्तीति श्रुत्यर्थः॥५०४॥
 
२५६
 

 
उक्तमर्थं दृष्टान्तेन विशदयति द्वाभ्यां,
 

 
छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुष्ठु वा ।

न स्पृशत्येव यत्किकिंचित् पुरुषं तद्विलक्षणम् ॥५०५ ॥

 
स्वशरीरच्छायायाः जलाग्न्यादिसंबन्धे सदसद्वस्तु-संबन्धे वा

शरीरस्य यथा शीतोष्णादिसंबन्धो नास्ति एवं बुद्धौ प्रतिफलतः जीवस्य

उपाधेः प्रतिबिंब पक्षपातित्वात् तद्धर्म-पुण्यसुखादिसंबन्धेपि अज्ञान-

नाशेन जीवत्वविगमानन्तरं तद्विलक्षणं विबिंबभूतं पूर्णत्वात् पुरुषं यत्किकिंचिदपि

न स्पृशति । छायापर्याये पुरुषशब्देन शरीरं ग्राह्यम् । तद्विलक्षणं छाया-

विलक्षणं । न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति कदाचन ॥५०५॥
 

 
अविकारमुदासीनं गृहधर्माः प्रदीपवत् ।

देहेन्द्रिय-मनोधर्माः नैवात्मानं स्पृशन्त्यहो ॥५०६॥