2023-02-20 14:43:15 by ambuda-bot
This page has not been fully proofread.
श्रीविवेकचूडामणिः सव्याख्यः
66
श्रुतिसारसमुद्धरणे तोटकाचार्यै: "न हि नित्यमनित्यगुणेन गुणि " इति ।
वियदधिकरणभाष्ये च अनित्यशब्दाश्रयत्वेन गगनस्यानित्यत्वमिति ।
तथाच स्वतो निर्विकारतया मूलाज्ञाननाशेन शरीरेन्द्रिय चेतोरूपोपाधि-
संबन्धाभावाच्च अखण्ड सुखानुभूते: अनावृतापरिच्छिन्न-स्वयंप्रकाशा-
नन्दस्वरूपस्य मम कुतः पुण्यानि कुतस्तरां पापानि । तत्र श्रुति प्रमाणयति
'ब्रूते नन्वागतमित्यपि श्रुतिः " इति । अनन्वागतं पुण्येन अनन्वागतं
पापेन तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति" इति सुषुप्तिकाले
मूलाज्ञानसत्वेपि तत्कार्याध्यासाभावात् पुण्यपापास्पृष्टत्वं हृदयगत-सकल-
शोकास्पृष्टत्वं च बोधितं । तथा सर्वैरनुभूयते च । संप्रति कारणाज्ञानस्यापि
नाशात् पुण्यपापदुःख - संबन्धः सुतरां नास्तीति को मोहः कः शोकः इति-
श्रुताविव कुतरशब्देन तेषां अभाव: आक्षेपेण बोधितः । यदि पुण्यपाप-
दुःखानां आत्मधर्मत्वं सुषुप्तावपि तदन्वयः स्यात् । तदा स्वरूपसुखानुभव:,
नतु पुण्यफलं परिच्छिन्नं सुखमनुभूयते । तस्य सुखस्य विषयसंबन्धा-
जनितत्वात् । तदा दुःखं तु नैवास्ति "एषोस्य परम आनन्दः" इतिश्रुतेः
अनुभवाच्च। ततः पापानन्वयः । हृदयस्य शोकान् इत्यनेन शोकशब्दित-
दुःखस्य आत्मधर्मंत्वं नास्तीति कथितं भवति । जाग्रत्स्वप्नयोरध्यासात्
ते कल्प्यन्ते स्म, इदानीं तदभावात् कल्पना नास्तीति श्रुत्यर्थः॥५०४॥
२५६
उक्तमर्थं दृष्टान्तेन विशदयति द्वाभ्यां,
छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुष्ठु वा ।
न स्पृशत्येव यत्किचित् पुरुषं तद्विलक्षणम् ॥५०५ ॥
स्वशरीरच्छायायाः जलाग्न्यादिसंबन्धे सदसद्वस्तु-संबन्धे वा
शरीरस्य यथा शीतोष्णादिसंबन्धो नास्ति एवं बुद्धौ प्रतिफलतः जीवस्य
उपाधेः प्रतिबिंब पक्षपातित्वात् तद्धर्म-पुण्यसुखादिसंबन्धेपि अज्ञान-
नाशेन जीवत्वविगमानन्तरं तद्विलक्षणं विबभूतं पूर्णत्वात् पुरुषं यत्किचिदपि
न स्पृशति । छायापर्याये पुरुषशब्देन शरीरं ग्राह्यम् । तद्विलक्षणं छाया-
विलक्षणं । न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति कदाचन ॥५०५॥
अविकारमुदासीनं गृहधर्माः प्रदीपवत् ।
देहेन्द्रिय-मनोधर्माः नैवात्मानं स्पृशन्त्यहो ॥५०६॥