This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
२५५
 
वा एकरूपत्वं न संभवति, निरंशकस्य निरवयवस्य विक्रियासंभवश्च ।
तदुपपादयति एकात्मको यो निबिड : सान्द्रः, निरन्तर : निरवकाशः
व्योमेव गगनमिव पूर्ण: स कथं नु चेष्टते ॥५०३॥
पुण्यानि पापानि निरिन्द्रियस्य
 
निश्चेतसो निर्विकृते-निराकृतेः ।
कुतो ममाखण्ड-सुखानुभूते ब्रूते
ह्यनन्वागतमित्यपि श्रुतिः ॥ ५०४॥
 
विहितकर्म-जन्यं पुण्यं, निषिद्धकर्म-जन्यं पापं, कर्म च त्रिविधं
शरीरं मानसं वाचिकं चेति, उक्तं च गीतासु "शरीरवाङ्मनोभि-र्यत्
कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा " इति । महानदी - स्नान-
देवब्राह्मण-प्रदक्षिणादीनि शारीराणि पुण्यानि, महामन्त्रजप -भगवन्नाम-
संकीर्तन -तद्गुणकथनादीनि वाचिकानि पुण्यानि, ईश्वरध्यानस्वपरहित-
चिन्तनादीनि मानसानि पुण्यानि । अगम्यागमन परनिन्दा-नृतवदन-
उक्तं हि
 
निषिद्धध्यानादीनि क्रमेण शरीर-वाङ्मनोजन्यानि पापानि ।
'शरीरजैः कर्मदोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मानसै-
रन्त्यजातितां " इति। वाक्पदं चक्षुश्श्रोत्राद्युपलक्षकं । यद्वा वाक्पदेन
कर्मसाधनानीन्द्रियाणि मनः पदेन ज्ञानसाधनानि चक्षुरादीन्द्रियाणि
गृह्यन्ते । सदसत्करण-दर्शन-श्रवणादीनि तत्तत्पुण्यपापानि । एतत्सर्वं
इन्द्रियाणां चेतसो वा साकारस्य शरीरस्य वा स्थूलस्य । निरिन्द्रियस्य
'न तस्य कार्यं करणं च विद्यते " इतिश्रुतेः । "सचक्षुरचक्षुरिव सकर्णोकर्ण
इव समना अमना इव सप्राणोप्राण इवेतिच । वस्तुतः अचक्षुरपि परदृष्ट्या
सचक्षुरिव जीवन्मुक्त: आध्यासिक सम्बन्धरहिततया तिष्ठतीति तदर्थः ।
तथाच सेन्द्रियत्वं समनस्त्वं सशरीरत्वं च मिथ्याज्ञाननिबन्धनं आभिमानिक
तादात्म्य-संबन्धेन तत्तद्विशिष्टत्वमेव ।
ब्रह्मसाक्षात्कार-दग्धा-ज्ञानस्य
कुतः अभिमानः कुतस्तरां तादात्म्यं । तस्मात् निरिन्द्रियस्य निश्चेतसः
निराकृतेः इतिपदत्रयेण वाङ्मनश्शरीररूप-पुण्यपाप-साधनरहितत्वं
कथितं । तार्किकाः आत्मन एव पुण्यं पापं च वदन्ति । निविकृतेरित्यनेन
विहित-निषिद्ध-कर्मजन्ययोः पुण्यपापयोः विकारतया नित्यस्यान्ि
धर्माश्रयत्वे अनित्यत्वप्रसंगात् विकृतिशून्य आत्मा उक्तः ।
 
((