This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
अहार्यवन्नित्य-विनिश्चलोहं

अम्भोधिवत् पारविवर्जितोहम् ॥५००॥
 
"
 

 
"
आकाशवत् सर्वंगतश्च नित्यः " इत्यादिश्रुतेरर्थ: अनुभूत इति

अनुभवप्रकाशनमिदं । कल्पविदूरग: कालापरिच्छिन्नः । "स्वयंज्योति: "

श्रुत्यर्थमाह आदित्यवत् भास्य-विलक्षणोहं अहार्यवत् पर्वतवत् नित्यविनिश्च-

लोहम् । अम्भोधिवत् पारविवर्जितोहम् ॥५००॥
 
२५४
 
(6
 

 
न मे देहेन सम्बन्धो मेघेनेव विहायसः ।
 

अतः कुतो मे तद्धर्माः जाग्रत्स्वप्न- सुषुप्तयः ॥५०१ ॥
 

 
विहायसः आकाशस्य मेघेन यथा संन्धो नास्ति, "धूमज्योति-

स्सलिलमरुतां सन्निपातः क्व मेघः" इतिकालिदासोक्तेः पृथ्वी -जलतेजो

वायुसंघातरूपेण मेघेन यथाकाशं न संसृज्यते नवा नीरवर्षणेन आर्द्रारीक्रियते

निर्लिप्तस्वभावत्वात् अमूर्तत्वात् एवं मे मम आत्मनः पांचभौतिकेनापि

देहेन संबन्धः नास्ति उक्तहेतोरेव । अतः धर्मिसंवन्धाभावात् तद्धर्माः

जाग्रत्स्वप्न- सुषुप्तयः मे कुतः इत्यन्वयः ॥ ५०१॥
 
{"
 

 
उपाधिरायाति स एव गच्छति
 

स एव कर्माणि करोति भुङ्क्ते ।

स एव जीवन् म्रियते सदाहं
 

कुलाद्रिवन्निश्चल एव संस्थितः ॥५०२॥
 
(6
 
'

 
न मे प्रवृत्ति-र्नच मे निवृत्तिः
सदैकरूपस्य निरंकुशस्य ।
एकात्मको यो निबिडो निरन्तरो
व्योमेव पूर्णः स कथं नु चेष्टते ॥ ५०३॥
 
"
उत्क्रान्ति-गत्यागतीनां " "तद्गुणसारत्वात्त-द्व्यपदेशः प्राज्ञवत्
 
" ((
 
"
"
कर्ता शास्त्रार्थवत्वात् " "यथा च तक्षोभयथा
 
" "चराचरव्यपाश्रयस्तु
 
"
स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् " इति क्रमेण तत्र तत्र सूत्राणि ।

सदाहं कुलाद्रिवन्निश्चल एव संस्थितः प्रवृत्तिनिवृत्योः यौगपद्ये वा क्रमिकत्वे
 
न मे प्रवृत्ति र्नच मे निवृत्तिः
सदैकरूपस्य निरंकुशस्य ।
एकात्मको यो निबिडो निरन्तरो
 
व्योमेव पूर्णः स कथं नु चेष्टते ॥ ५०३॥
 
""