This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
मय्यखण्ड- सुखाम्भोधौ बहुधा विश्ववीचयः ।
 

उत्पद्यन्ते विलीयन्ते मायामारुत-विभ्रमात् ॥ ४९७ ॥
 
२५३
 

 
स्वात्मनिरूपणे " मयि सुखबोधपयोधौ महति ब्रह्माण्ड - -बुद्बुद -
-
सहस्रं । मायामयेन मरुता भूत्वा भूत्वा मुहुस्तिरोधत्ते " इति स्पष्टम्
 
॥४९७॥
 

 
स्थूलादिभावा मयि कल्पिता

भ्रमादा-रोपितानुस्फुरणेन लोकैः ।

काले यथा कल्पक-वत्सरायन-
त्व

र्त्वा
दयो निष्कल-निर्विकल्पे ॥४९८ ॥
 

 
"अष्टादशनिमेषास्तु काष्ठा त्रिंशत्तु ताः कला " इत्यादिना अखण्डे

एककाले निष्कले निरवयवे निर्विकल्पे कलाकाष्ठादिपरिणाम-रहिते यथा

लोकै: क्षणदिन-मासर्व्त्वयन-संवत्सर-कल्पादिभेदाः

कल्पिता:,
 
तथा
 
आरोपितानुस्फुरणेन कल्पितस्फूर्तिमात्रेण स्थूलादिभावाः स्थूल-सूक्ष्म-
कारण-शरीर-रूपपदार्था: भ्रमात् मयि कल्पिता: लोकैः इत्यन्वयः ।

नहि नादबिंदु-कलातीतः कालं वा तद्भेदान् वा पश्यति तद्वत् देशकालवस्तु-

परिच्छेदशून्यं भूमानं पश्यतो मम समूलकाषं-कषिताज्ञानस्य नारोपितानु-

स्फुरणं भ्रान्त्यभावादिति भावः ॥४९८ ॥
 

 
आरोपितं नाश्रयदूषकं भवेत् कदापि मूढैर्मतिदोषदूषितैः ।

नाहींर्द्रिकरोत्यूषर-भूमिभागं मरीचिका - वारिमहाप्रवाहः ॥४९९॥
 

 
मतिदोषदूषितैः मूढैरारोपितं आश्रयदूषकं निरधिष्ठानभ्रमायोगात्

आश्रयस्य स्वाधिष्ठानस्य दोषावहं कदापि न भवेत् । उक्तं हि अध्यास-

भाष्ये "तत्रैवंसति यत्र यदध्यासः तत्कृतेन गुणेन दोषेण वा अणुमात्रेणापि

स न सम्बध्यते " इति । तद् दृष्टान्तेन स्फुटयति नेति । मरीचिकावारि-

महाप्रवाहः ऊषरभूमिभागं नार्द्रीकरोतीति। ऊषरभूमिभाग: मरीचिका-

वारिमहाप्रवाह-कल्पनाश्रयः ॥ ४९९ ॥
 

 
आकाशवत् कल्पविदूरगोहं
 

आदित्यवद्भास्य- विलक्षणोहम् ।