This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
मय्यखण्ड- सुखाम्भोधौ बहुधा विश्ववीचयः ।
 
उत्पद्यन्ते विलीयन्ते मायामारुत-विभ्रमात् ॥ ४९७ ॥
 
२५३
 
स्वात्मनिरूपणे " मयि सुखबोधपयोधौ महति ब्रह्माण्ड - बुद्बुद -
सहस्रं । मायामयेन मरुता भूत्वा भूत्वा मुहुस्तिरोधत्ते " इति स्पष्टम्
 
॥४९७॥
 
स्थूलादिभावा मयि कल्पिता
भ्रमादा-रोपितानुस्फुरणेन लोकैः ।
काले यथा कल्पक-वत्सरायन-
त्वदयो निष्कल-निविकल्पे ॥४९८ ॥
 
"अष्टादशनिमेषास्तु काष्ठा त्रिंशत्तु ताः कला " इत्यादिना अखण्डे
एककाले निष्कले निरवयवे निर्विकल्पे कलाकाष्ठादिपरिणाम-रहिते यथा
लोकै: क्षणदिन-मासर्व्वयन-संवत्सर-कल्पादिभेदाः
कल्पिता:,
 
तथा
 
आरोपितानुस्फुरणेन कल्पितस्फूतिमात्रेण स्थूलादिभावाः स्थूल-सूक्ष्म-
कारण-शरीर-रूपपदार्था: भ्रमात् मयि कल्पिता: लोकैः इत्यन्वयः ।
नहि नादबिंदु-कलातीतः कालं वा तद्भेदान् वा पश्यति तद्वत् देशकालवस्तु-
परिच्छेदशून्यं भूमानं पश्यतो मम समूलकाषं-कषिताज्ञानस्य नारोपितानु-
स्फुरणं भ्रान्त्यभावादिति भावः ॥४९८ ॥
 
आरोपितं नाश्रयदूषकं भवेत् कदापि मूढैर्मतिदोषदूषितैः ।
नाहींकरोत्यूषर-भूमिभागं मरीचिका - वारिमहाप्रवाहः ॥४९९॥
 
मतिदोषदूषितैः मूढैरारोपितं आश्रयदूषकं निरधिष्ठानभ्रमायोगात्
आश्रयस्य स्वाधिष्ठानस्य दोषावहं कदापि न भवेत् । उक्तं हि अध्यास-
भाष्ये "तत्रैवंसति यत्र यदध्यासः तत्कृतेन गुणेन दोषेण वा अणुमात्रेणापि
स न सम्बध्यते " इति । तद् दृष्टान्तेन स्फुटयति नेति । मरीचिकावारि-
महाप्रवाहः ऊषरभूमिभागं नाकरोतीति। ऊषरभूमिभाग: मरीचिका-
वारिमहाप्रवाह-कल्पनाश्रयः ॥ ४९९ ॥
 
आकाशवत् कल्पविदूरगोहं
 
आदित्यवद्भास्य- विलक्षणोहम् ।