This page has been fully proofread once and needs a second look.

२५२
 
श्रीविवेकचूडामणिः सव्याख्यः
 
द्रष्टुः श्रोतुर्वक्तुः कर्तृर्भोक्तु - र्विभिन्न एवाहम् ।

नित्यनिरंतर-निष्क्रिय-निस्सीमा-संगपूर्णबोधात्मा ॥४९२॥
 

 
नाहमिदं नाहमदोऽप्युभयोरवभासकं परंशुद्धम् ।

बाह्याभ्यन्तर -शून्यं पूर्णं ब्रह्माद्वितीयमेवाहम् ॥ ४९३ ॥
 

 
सर्वोपाधि-सम्बन्ध-विनिर्मुक्त इत्यर्थः । त्रिविधपरिच्छेदशून्ये कुतोवा
बाह्याभ्यन्तरकल्पना, शरीरदृष्ट्या सा नात्मदृष्ट्या ॥ ४९३॥
 

 
निरुपममनादितत्वं त्वमहमिदमद इतिकल्पनादूरम् ।

नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयमेवाहम् ॥४९४॥
 

 
नारायणोहं नरकान्तकोहं पुरान्तकोहं पुरुषोहमीशः ।

अखण्डबोधोह-मशेषसाक्षी निरीश्वरोहं निरहं च निर्ममः ॥ ४९५ ॥
 

 
अहंताममताशून्य इत्यर्थ: । "अत एव चानन्याधिपतिः" इति

ब्रह्मसूत्रम् ॥४९५॥
 

 
सर्वेषु भूतेष्वमेव संस्थितः,
 

ज्ञाना (त्रा) त्मनान्तर्बहिराश्रयः सन् ।

भोक्ता च भोग्यं स्वयमेव सर्वं
 

(य) तद्यत्पृथग्दृष्टमिदंतया पुरा ॥४९६ ॥
 

 
सर्वेषु भूतेषु वियदादिषु अन्तर्बहिराश्रयः सन् ज्ञाना ( त्रा) त्मना अहमेव

संस्थितः स्वोपाध्यन्तःकरणवृत्या व्याप्य हि सर्वं जानाति, ज्ञानकाले सर्व-

स्यापि अन्तःकरणाविच्छिन्न-चैतन्यरूप-प्रमात्रभिन्नस्वावच्छिन्नचैतन्याध्य-

स्ततया अधिष्ठानं सर्वस्य स्वयमेवेतिभावः नाधिष्ठानाद् भिन्नतारोपि

तस्येति भोक्ता च भोग्यं शब्दादि स्वयमेव सर्वं पुरा यद्यत् पृथक् दृष्टं

तत्सत्तास्फूर्तिव्यतिरिक्त-सत्तास्फूर्तिकत्वाभावात् शूक्तिरजतरज्जु-सर्पादि-

वत् ॥४९६॥