This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
२५१
 
नम इति ।
 
भावाद्वैतं
 
प्लुष्टाज्ञानः कृतकृत्य: गुरुं प्रणमति ।
सदा कार्यं क्रियाद्वैतं न कुत्रचित् । अद्वैतं त्रिषु लोकेषु नाद्वैतं गुरुणा सह '
 
इत्यनुशासनम् ।
 
नमो नमस्ते गुरवे महात्मने विमुक्त-संगाय सदुत्तमाय ।
नित्याद्वयानन्द-रसस्वरूपिणे भूम्ने सदापार-दयाम्बुधाम्ने ॥४८७॥
 
61
 
सदुत्तमाय ब्रह्मविद्वरिष्ठाय, भूम्ने ब्रह्मव्यतिरिक्तविषयक-दर्शन-
श्रवण - विज्ञानशून्याय सदा अपारा च सा दया च सैवाम्बु तस्य धाम्ने
निक्षेपस्थानाय करुणाजलनिधये ॥४८७॥
 
यत्कटाक्ष - शशि - सान्द्रचन्द्रिका पातधूत-भवतापज-श्रमः ।
प्राप्तवानह-मखण्डवैभवानन्द-मात्मपद-मक्षयम्
 
त् ॥४८८॥
निष्कल-निष्क्रिय-शान्त - निरवद्य-निरंजन- परब्रह्म-निर्मग्न - मनस्सं-
वलिततया शिशिर - शिशिराः जगदाह्लादकाः ये कटाक्षाः अमृतझरभंगाः
अपांगा: त एव शशी तदीया सान्द्रचन्द्रिका । यद्वा त एव शशि-सान्द्र-
चन्द्रिका तस्याः पातेन निरर्गलं प्रसरणेन धूतः तिरस्कृतः संसारतापजश्रमः
यस्य मम सः अहं अखण्डवैभवानन्दं निरतिशय स्वप्रकाशसुखं अक्षयं
शाश्वतं आत्मपदं विष्णुपरमपदं क्षणात् प्राप्तवान् तस्मै गुरवे महात्मने
नमः इति पूर्वेणान्वयः ॥४८८ ॥
 
गुरुप्रसादलब्धं स्वानुभवमाविष्करोति ।
 
धन्योहं कृतकृत्योहं विमुक्तोहं भवग्रहात् ।
नित्यानन्दस्वरूपोहं पूर्णोहं त्वदनुग्रहात् ॥४८९॥
 
असंगोह-मनंगोह-मलिंगोह-मभंगुरः ।
प्रशान्तोह-मनन्तोह-मतान्तोहं चिरंतनः ॥४९०॥
अतान्तः अश्रान्त इत्यर्थः ॥४९॥
अकर्ताह-मभोक्ताह-मविकारोह-मक्रियः
शुद्धबोध-स्वरूपोहं केवलोहं सदाशिवः ॥४९१॥