This page has been fully proofread once and needs a second look.

२५०
 
श्रीविवेकचूडामणिः सव्याख्यः
 
बुद्धिर्विनष्टा गलिता प्रवृत्तिः

ब्रह्मात्मनोरेकतयाधिगत्या ।

इदं न जानेप्यनिदं न जाने
 

किंवा कियद्वा सुखमस्य पारम् ॥४८२॥
 

 
ब्रह्मात्मनोरेकतयाधिगत्या साक्षात्कारेण बुद्धिर्विनष्टा, प्रवृत्ति-

र्
गलिता, इदं प्रत्यक्षगतं न जाने अनिदमपि परोक्षमपि न जाने । पूर्वं

तथा विभाग आसीत् पुरोवर्ति प्रत्यक्षं अपरं परोक्षमिति, इदानीं तथा

नास्तीति कथनं । किंवा कियद्वा सुखं, अस्य पारं किं कियद्वा सुखं ।

एतावन्तं कालं अनुभूतं अखण्डं सुखं इति तत्र कालतः देशतः

वस्तुतश्च अपरिच्छिन्नत्वं कथयति । इदं न जानेप्यनिदं न जाने इत्यनेन

वस्तुतः परिच्छेदो नास्तीत्युक्तं । किंवा कियद्वा सुखमस्य पारमिति कालतो

देशतश्च स नास्तीत्युक्तम् ॥४८२॥
 

 
वाचा वक्तुमशक्यमेव मनसा मन्तुं नवा शक्यते

स्वानन्दामृत-पूरपूरितपर-ब्रह्मांबुधे-र्वैभवम् ।

अम्भोराशिविशीर्ण-वार्षिक-शिलाभावं भजन्मे मनः

यस्यांशांशलवे विलीनमधुनाऽऽनन्दात्मना निर्वृतम् ॥ ४८३ ॥
 

 
वार्षिकशिला वर्षोपलस्तु करकः इत्यमरः ।
 

 
क्वगतं केन वा नीतं कुत्र लीनमिदं जगत् ।

अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ॥४८४॥
 

 
किं हेयं किमुपादेयं किमन्यत् किं विलक्षणम् ।

अखण्डानन्दपीयूष-पूर्णो ब्रह्ममहार्णवे ॥४८५॥
 

 
नकिंचिदत्र पश्यामि नशृणोमि न वेद्यहं ।

स्वात्मनैव सदानन्दरूपेणास्मि विलक्षणः ॥ ४८६ ॥
 

 
पंच-कोशविलक्षण इत्यर्थः ॥ ४८६ ॥